Students must start practicing the questions from CBSE Sample Papers for Class 10 Sanskrit with Solutions Set 8 are designed as per the revised syllabus.
CBSE Sample Papers for Class 10 Sanskrit Set 8 with Solutions
कालावधि : होरात्रयम्
पूर्णाङ्का : 80
सामान्य निर्देश
- अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः सन्ति
- खण्ड: ‘क’ अपठित-अवबोधनम् – 10 अङ्काः
- खण्ड: ‘ख’ रचनात्मकं कार्यम् – 15 अङ्काः
- खण्ड: ‘ग’ अनुप्रयुक्त-व्याकरणम् – 25 अङ्काः
- खण्ड: ‘घ’ पठित-अवबोधनम् – 30 अङ्काः
- प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।
- उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः।
- सर्वेषां प्रश्नानां उत्तराणि संस्कृतेन लेखनीयानि।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।
खंड: ‘क’ (अपठितावबोधनम्)
(10 अङ्काः)
खंड ‘क’ में अपठितावबोधनम् अपठित गद्यांश से संबंधित एकपदेन, पूर्णवाक्येन, उपयुक्त शीर्षक व बहुविकल्पीय प्रश्न दिए गए हैं, जिनके निर्धारित अंक उनके सम्मुख अंकित हैं।
प्रश्न 1.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत। (10)
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
प्राचीनकाले शुद्धोधनः नाम्नि राजा आसीत्। तस्य सिद्धार्थः नाम पुत्रः अभवत्। सिद्धार्थस्य पालनं विमाता गौतमी अकरोत्। अतः तस्य नाम गौतमः अपि आसीत्। सिद्धार्थस्य हृदयं दयापूर्णम् आसीत्। एकदा सिद्धार्थस्य भ्राता एकं हंसं बाणेन अहनत्। सिद्धार्थस्य हृदयं हंसं दृष्ट्वा करुणया अपूरयत्। सिद्धार्थस्य वैराग्यभावम् अवलोक्य शुद्धोधनः अतीव चिन्तितः अभवत्। तदा सः सिद्धार्थस्य विवाहः एकया रूपवत्या कन्यया सह कृतवान्। सिद्धार्थस्य राहुल: इति नाम्ना एकः पुत्रः अपि जातः। एकदा भ्रमणसमये सिद्धार्थ: एकं वृद्धं, एकं रोगिणम् एकं मृतं मनुष्यं च अपश्यत्। “सर्वेषाम् एव ईदृशी गति भवति’ इति ज्ञात्वा सः संसारात् विरक्तः अभवत्। एकदा रात्रौ सः स्वकीयां पत्नी, पुत्रं, राजप्रासादं च त्यक्त्वा वनम् अगच्छत्। ‘बोधगया’ इति स्थाने सः बुद्धत्वं प्राप्तवान्। ततः ‘बुद्ध’ इति नाम्ना प्रसिद्धः अभवत्। सः संसारम् अमरतायाः मार्गम् अदर्शयत्।
I. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2 अङ्काः)
(एक पद में उत्तर दीजिए।) (केवल दो प्रश्न)
(i) सिद्धार्थस्य पालनं का अकरोत्?
उत्तराणि:
गौतमी
(ii) सिद्धार्थस्य हृदयं कीदृशम् आसीत्?
उत्तराणि:
दयापूर्णम्
(iii) प्राचीनकाले कः राजा आसीत्?
उत्तराणि:
शुद्धोधन
II. पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) (2 × 2 = 4 अङ्काः)
(पूर्ण वाक्य में उत्तर दीजिए।) (केवल दो प्रश्न)
(i) सिद्धार्थस्य वैराग्यभावम् अवलोक्य कः चिन्तितः अभवत्?
उत्तराणि:
सिद्धार्थस्य वैराग्यभावम् अवलोक्य शुद्धोधनः अतीव चिन्तितः अभवत्।
(ii) सिद्धार्थ: केन नाम्ना प्रसिद्धः अभवत्?
उत्तराणि:
सिद्धार्थ ‘बुद्ध’ इति नाम्ना प्रसिद्धः अभवत्।
(iii) शुद्धोधनस्य पुत्रस्य नाम किमासीत्?
उत्तराणि:
शुद्धोधनस्य पुत्रस्य नाम ‘सिद्धार्थः’ आसीत्।
III. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। (1 अङ्कः)
(इस अनुच्छेद के लिए उपयुक्त शीर्षक संस्कृत में लिखिए।)
उत्तराणि:
‘सिद्धार्थस्य विरक्तिः।
IV. निर्देशानुसारम् उत्तरत। (1 × 3 = 3 अङ्काः)
(निर्देशानुसार उत्तर दीजिए।)
(i) ‘अदर्शयत्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) शुद्धोधनः
(ख) सः
(ग) माता
(घ) पुत्रः
उत्तराणि:
(ख) सः
(ii) ‘दृष्ट्वा’ पदस्य पर्यायपदं गद्यांशे किं प्रयुक्तम्?
(क) अवलोक्य
(ख) ज्ञात्वा
(ग) त्यक्त्वा
(घ) विलोक्य
उत्तराणि:
(क) अवलोक्य
(iii) ‘दयापूर्णम्’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) हंसम्
(ख) हृदयम्
(ग) गौतमः
(घ) मनः
उत्तराणि:
(ख) हृदयम्
खंड: ‘ख’ (रचनात्मकं कार्यम्)
(15 अङ्काः)
खंड ‘ख’ रचनात्मकं कार्य में पत्र, चित्र लेखन, अनुच्छेद वर्णन और हिंदी वाक्यों का संस्कृत में अनुवाद आदि से संबंधित प्रश्न दिए गए हैं, जिनके निर्धारित अंक उनके सम्मुख अंकित हैं।
प्रश्न 2.
(अ) भवती नाम मानसी अस्ति भवतीः छात्रावासस्य च वसति। स्वमातरं प्रति लिखितं निमन्त्रण-पत्रं मञ्जूषापद सहायतया उत्तर पुस्तिकायां लिखत। (5 अङ्काः)
(आपका नाम मानसी है और आप छात्रावास में रहती हैं। अपनी माता को लिखे गए निमंत्रण पत्र को मंजूषा के शब्दों की सहायता से उत्तर पुस्तिका में लिखिए।)
मञ्जूषा – प्रणामाः कृते दास्यति, माताः, आगच्छतु वार्षिकोत्सवः चिन्तिता, पश्यतु, उत्साहवर्द्धनम्, मानसी।
उत्तराणि:
दिल्लीत:
दिनाङ्कः _________________
पूज्य माता
सादरं चरणस्पर्शः
भवत्याः गत सप्ताहे पत्र प्राप्तम्। अहं भवत्याः स्वास्थ्य विषये चिन्तिता अस्मि। मम पठनं नियमितम् अस्ति। आगामि नवम्बर मासे मम विद्यालयस्य वार्षिकोत्सवः अस्ति। अयम् उत्सवः प्रधानाचार्यः मम कृते विशिष्टः छात्रस्य पुरस्कारं दास्यति। अतएव अहम् इच्छामि यत् भवती अपि अत्रागत्य इयम् उत्सवं पश्यतु येन मम उत्साहवर्द्धनम् अपि भविष्यति। अतः पूज्य पित्रा सह मम विद्यालये अवश्यमेव आगच्छतु। भवतोः चरणेषु प्रणामाः अग्रजाय च नमोनमः।
भवत्याः पुत्री
मानसी
अथवा
(आ) भवतः नाम माधवः। अस्वस्थतायाः कारणात् पञ्चदिनपर्यन्तं विद्यालयं न गमिष्यति अवकाशार्थं प्रधानाचार्यं प्रति प्रार्थनापत्रे मञ्जूषातः उचितशब्दान् अवचित्य लिखत।
(आपका नाम माधव है। अस्वस्थ होने के कारण (आप) पाँच दिन तक विद्यालय नहीं जा सकते हो, अपने प्रधानाचार्य को लिखे गए प्रार्थना-पत्र को मंजूषा से उचित शब्द चुनकर लिखिए।)
मञ्जूषा – गृहे माधवः, हानि, दशमकक्षायाः, परामर्शः तीव्रज्वरेण, अहम्, अवकाशम्, असमर्थः, माम्।
उत्तराणि:
10/30 नई मण्डी
मुरादनगर
दिनाङ्कः _________________
माननीय प्रधानाचार्य
केन्द्रीय विद्यालयः
केशवपुरम्,
दिल्ली।
विषयः अवकाशार्थं प्रार्थनापत्रम्
महोदय,
सविनयं निवेदयामि यत्-अहम्
अस्य विद्यालयस्य दशमकक्षायाः छात्रः अस्मि। अहं तीव्रज्वरेण ग्रस्तः अस्मि। वैद्येन परामर्शः दत्तः यत्-पञ्चदिनपर्यन्तं गृहे एव स्थातव्यम्। अतः अहं विद्यालयं आगन्तुम् असमर्थः अस्मि। मह्यं पञ्चदिनानाम् अवकाशं प्रदाय माम् अनुगृह्णन्तु। अध्ययनस्य या हानि: भविष्यति तां दूरीकर्तुं यतिष्ये।
सधन्यवादाः।
भवदीयः शिष्यः
माधव:
प्रश्न 3.
(अ) प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्चवाक्यानि संस्कृतेन लिखत। (1 × 5 = 5 अङ्काः)
(दिए गए चित्र को देखकर मञ्जूषा में दिए गए शब्दों की सहायता से पाँच वाक्य संस्कृत में लिखिए।)
मञ्जूषा – इदं सूर्य, कुटी, ग्रामीणः, चित्रे, प्रातःकाले, महिलाः, वृक्षाः वः पर्वताः, अस्ति, ग्रामं घटः सन्ति प्रातः कालस्य, सूर्यः उदेति, अपि, जनाः सामान्याः, चित्रं, दृश्यन्ते भवन्ति परितः।
अथवा
(आ) मञ्जूषाप्रदत्तशब्दानां साहाय्येन अधोलिखित विषयम् अधिकृत्य न्यूनातिन्यूनं पञ्चाभिः संस्कृतवाक्येषु एकम् अनुच्छेदं लिखत।
(मंजूषा में दिए गए शब्दों की सहायता से निम्नलिखित विषय पर आधारित कम-से-कम पाँच संस्कृत वाक्यों में एक अनुच्छेद लिखिए।) क्रीडा दिवस (खेल का दिवस)
मञ्जूषा – प्रदर्शयन्ति क्रीडा दिवसः सन्ति प्रसन्नाः, अनेकक्रीडाः च क्रीडाप्रतियोगिताः अस्ति, क्रीडाक्षेत्रे, पुरस्कारवितरणम्, धावने प्रथमस्थानम्, सर्वे विद्यालयस्य अद्य गर्वम्, अनुभवामि अलेभे आयोजिताः क्रीडकाः, उत्साहिताः।
उत्तराणि:
(i) इदं चित्रं प्रातः कालस्य अस्ति।
(ii) प्रातः काले सूर्यः उदेति।
(iii) ग्रामीणः जनाः स्व-कार्येषु सङ्ग्नाः दृश्यन्ते।
(iv) चित्रे पर्वताः अपि दृश्यन्ते।
(v) ग्रामं परितः वृक्षाः सन्ति।
अथवा
(i) अद्य क्रीडा दिवसः अस्ति।
(ii) प्रसन्नाः क्रीडकाः अनेकक्रीडाः प्रदर्शयन्ति।
(iii) विद्यालयस्य क्रीडाक्षेत्रे क्रीडाप्रतियोगिताः आयोजिताः सन्ति।
(iv) धावने अहं प्रथमस्थानम् अलेभे।
(v) सर्वे क्रीडकाः प्रसन्नाः उत्साहिताः च सन्ति।
प्रश्न 4.
अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत। (1 × 5 = 5 अङ्काः)
(निम्नलिखित वाक्यों का संस्कृत भाषा में अनुवाद करके लिखिए।)
(i) गाँव के चारों ओर वृक्ष हैं।
Trees are all around in the village.
(ii) सदा सत्य बोलो।
Always speak the truth.
(iii) राजा सिंहासन पर बैठता है।
The king sits on throne.
(iv) वह झूठ बोलता है।
He speaks lie.
(v) तुम क्या खा रहे हो?
What are you eating ?
उत्तराणि:
(i) ग्रामं परितः वृक्षाः सन्ति।
(ii) सदा सत्यं वदतु।
(iii) नृपः सिंहासने अधितिष्ठति।
(iv) सः मृषा वदति।
(v) त्वं किं खादसि?
खंड: ‘ग’ (अनुप्रयुक्त-व्याकरणम्)
(25 अङ्काः)
खंड ‘ग’ अनुप्रयुक्त व्याकरणम् में संधि / संधि-विच्छेद, समास / समास विग्रह, प्रत्यय, वाच्य, काल-बोधक शब्द, अव्यय, शुद्ध / अशुद्ध वाक्य आदि से संबंधित बहुविकल्पीय प्रश्न दिए गए हैं, जिनके निर्धारित अंक प्रश्न के सामने अंकित हैं।
प्रश्न 5.
अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धि / सन्धि-विच्छेदं वा कुरुत। (1 × 4 = 4 अङ्काः)
(निम्नलिखित वाक्यों में रेखांकित शब्दों की संधि अथवा संधि-विच्छेद कीजिए।)
(अ) (i) विज्ञानस्य दुरुपयोगः विनाशाय भवति।
(ii) सज्जनाः परोपकारं एव कुर्वन्ति।
(iii) एतत् + चित्रम् पश्य पञ्चवाक्यानि लिखत।
(iv) वृद्ध: नि: + बलः अस्ति।
उत्तराणि:
(i) दुः + उपयोग
(ii) सत् + जनाः
(iii) एतच्चित्रम्
(iv) निर्बलः
अथवा
(आ) (i) बाल + अपि गच्छति।
(ii) तस्य विद्यालय: दयानन्दः विद्यालयः + अस्ति।
(iii) मन्ये वायोः + इव सुदुष्करम्।
(iv) एतैः जनैः + गम्यते।
उत्तराणि:
(i) बालोऽपि
(ii) विद्यालयोऽस्ति
(iii) वायोरिव
(iv) जनैर्गम्यते
प्रश्न 6.
अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं, समासं-विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत (1 × 4 = 4 अङ्काः)
(निम्नलिखित वाक्यों में रेखांकित पदों का समास अथवा समास विग्रह दिए गए विकल्पों में से चुनकर लिखिए।)
(i) लाभालाभौ चक्रारिपंक्तिरिव गच्छतः।
(क) लाभः लाभः
(ख) लाभश्च अलाभश्च
(ग) लाभे अलाभे
(घ) लाभः अलाभौ
उत्तराणि:
(ख) लाभश्च अलाभश्च
(ii) वर्ष-वर्षं प्रति दीपावलीः भवति।
(क) प्रतिवर्षम्
(ख) प्रतिवर्ष
(ग) अप्रतिवर्षम्
(घ) प्रत्येकवर्षम्
उत्तराणि:
(क) प्रतिवर्षम्
(iii) शक्तिम् अनतिक्रम्य दानं कुर्यात्।
(क) यथावलं
(ख) यथाशक्तिम्
(ग) यथापारं कृत्वा
(घ) यथाकालम्
उत्तराणि:
(ख) यथाशक्तिम्
(iv) लब्धा कीर्तिः येन सः श्री रामः अस्ति।
(क) लब्धकीर्तिः
(ख) अलब्धकीर्तिः
(ग) लब्धीकीर्ति
(घ) लब्धाकीर्तिम्
उत्तराणि:
(क) लब्धकीर्तिः
प्रश्न 7.
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत। (1 × 4 = 4 अङ्काः)
(निम्नलिखित वाक्यों में रेखांकित पदों के प्रकृति-प्रत्ययों को जोड़कर अथवा अलग करके उचित उत्तर विकल्पों में से चुनकर लिखिए।)
(i) इयं बालिका कुमार + ङीप् अस्ति।
(क) कुमारी
(ख) कुमारम्
(ग) कुमारि
(घ) कुमाङीप्
उत्तराणि:
(क) कुमारी
(ii) फलवन्तः वृक्षाः एव नम्राः भवन्ति।
(क) फल + वन्तः
(ख) फल + मतुप्
(ग) फलवान् + अन्तः
(घ) फलिन् + वतुप्
उत्तराणि:
(ख) फल + मतुप्
(iii) गीतायाः महत्त्वम् सर्वे एव जानन्ति।
(क) महत् + त्वा
(ख) महत् + त्व
(ग) महत्व
(घ) महत् + त्वम्
उत्तराणि:
(ख) महत् + त्व
(iv) भारते उद्योग+ठक् विकासः उतरोत्तरं वर्धते।
(क) औद्योगिकम्
(ख) औद्योगिक:
(ग) उद्योगिकम्
(घ) उद्यौगिक:
उत्तराणि:
(ख) औद्योगिकः
प्रश्न 8.
वाच्यानुसारम् उचितपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत। (1×3= 3 अड्डाः)
(वाच्य के अनुसार उचित पद से रिक्त स्थानों की पूर्ति करके निम्नलिखित संवाद को पुन: लिखिए।)
(i) सुरेशः मालती। किम् अतिथयः भोजन _________________।
(क) करोति
(ख) कुर्वन्ति
(ग) कुरुतः
(घ) कुरुथः
उत्तराणि:
(ख) कुर्वन्ति
(ii) मालतीः आम् भ्रातः। अतिथिभिः भोजनं _________________ (कृ)
(क) क्रियन्ते
(ख) क्रियसे
(ग) क्रियवाः
(घ) क्रियते
उत्तराणि:
(घ) क्रियते
(iii) सुरेशः मालती। किं जनकः अपि तत्र _________________?
(क) उपविशन्ति
(ख) उपविश्वस्य
(ग) उपविशति
(घ) उपविश्येते
उत्तराणि:
(ग) उपविशति
प्रश्न 9.
कालबोधकशब्दैः अधोलिखितं दिनचर्यां पूरयत। (1 × 4 = 4 अङ्काः)
(कालबोधक शब्दों से निम्नलिखित दिनचर्या को पूरा कीजिए।)
(i) प्रात: (7.30) _________________ वादने प्रार्थना सभा अस्ति।
(ii) प्रात: (10.00) _________________ वादने अर्द्धवकाशः भवति।
(iii) मध्याह्ने (11.45) _________________ वादने विविधाः क्रीडाः आयोज्यन्ते।
(iv) मध्याह्ने (1.15) _________________ वादने पूर्णावकाशः भवति।
उत्तराणि:
(i) सार्द्धसप्त
(ii) दश
(iii) पादोनद्वादश
(iv) सपादैक
प्रश्न 10.
मञ्जूषायां प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत। (1 × 3 = 3 अङ्काः)
(मंजूषा में दिए गए उचित अव्यय पदों से निम्नलिखित वाक्यों के रिक्त स्थानों की पूर्ति कीजिए।)
मञ्जूषा – अपि तदा सहसा।
(i) व्याघ्रोऽपि _________________ नष्टः गलबद्धः शृगालकः।
(ii) यदा मेघाः गर्जन्ति _________________ वर्षा भवति।
(iii) स दीनः इति जानन् _________________ कृषकः तं बहुधा पीडयति।
उत्तराणि:
(i) सहसा
(ii) तदा
(iii) अपि
प्रश्न 11.
अधोलिखितवाक्येषु रेखाङ्कित अशुद्धपदाय उचितपदं चित्वा वाक्यानि पुनः लिखत। (1 × 3 = 3 अङ्काः)
(निम्नलिखित वाक्यों में रेखांकित अशुद्ध पद के लिए उचित पद चुनकर वाक्यों को पुनः लिखिए।)
(i) सा मम भ्राता अस्ति।
(क) तौ
(ख) ते
(ग) सः
(घ) त्वम्
उत्तराणि:
(ग) सः
(ii) मम मित्रं मूर्खम् अस्ति।
(क) मूर्खे
(ख) मूर्खा
(ग) मूर्ख:
(घ) मूर्खान्
उत्तराणि:
(ग) मूर्ख:
(iii) अहं सज्जनः अस्ति।
(क) स्तः
(ख) सन्ति
(ग) अस्मि
(घ) स्वः
उत्तराणि:
(ग) अस्मि
खंड: ‘घ’ (पठित-अवबोधनम्)
(30 अङ्काः)
खंड ‘घ’ पठितावबोधनम् में पाठ्यपुस्तक से गद्यांश, पद्यांश व नाट्यांश पर आधारित एकपदेन, पूर्णवाक्येन निर्देशानुसारम् प्रश्न, प्रश्ननिर्माण, श्लोकों का अन्वय व भावार्थ, घटनाक्रम व प्रसंगानुकूल संबंधित प्रश्न दिए गए हैं, जिनके निर्धारित अंक प्रश्न के सामने अंकित हैं।
प्रश्न 12.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत। (5 अङ्काः)
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
आदेशं प्राप्य उभौ प्राचलताम्। तत्रोपेत्य काष्ठपटले निहितं पटाच्छादितं देहं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ। आरक्षी सुपुष्टदेहः आसीत्, अभियुक्तश्च अतीव कृशकायः। भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत्। सः भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच- “रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरिताया: मञ्जूषाया: ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे” इति प्रोच्य उच्चैः अहसत्। यथाकथञ्चिद् उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवंतौ।
I. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (2 × 2 = 1 अङ्कः)
(एक पद में उत्तर दीजिए।) (केवल दो प्रश्न)
(i) कृशकाय कः आसीत्?
उत्तराणि:
अभियुक्त
(ii) उभौ कस्य आदेशं प्राप्य प्राचलताम्?
उत्तराणि:
न्यायाधीशस्य
(iii) देहं केन आच्छादितम् आसीत्?
उत्तराणि:
पटेन
II. पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2 अङ्काः)
(पूर्ण वाक्य में उत्तर दीजिए।) (केवल दो प्रश्न)
(i) भारवेदनया कः क्रन्दति स्म?
उत्तराणि:
भारवेदनया अभियुक्तः क्रन्दति स्म।
(ii) मुदित: आरक्षी किम् उवाच?
उत्तराणि:
मुदित: आरक्षी तमुवाच रे दुष्ट! तस्मिन् दिने त्वया अहं चोरितायाः मञ्जूषाया: गृहणाद् वारितः।
(iii) किम् कारणात् शवस्य वहनं दुष्करम् आसीत्?
उत्तराणि:
भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत्।
III. निर्देशानुसारम् उत्तरत। (निर्देशानुसार उत्तर दीजिए।) (1 × 2 = 2 अङ्काः)
(अ) (i) ‘सुकरम्’ इति पदस्य विलोमपदं गद्यांशे किं प्रयुक्तम्?
(ii) ‘चोरितायाः मञ्जूषायाः अत्र विशेष्यपदं किम्?
अथवा
(आ) (i) ‘तत्कृते दुष्करम् आसीत्’ अत्र क्रियापदं किम्?
(ii) ‘स्थापितवन्तौ’ इति क्रियापदस्य कर्तृपदं किम्?
उत्तराणि:
(अ) (i) दुष्करम्
(ii) मञ्जूषायाः
अथवा
(आ) (i) आसीत्
(ii) उभौ
प्रश्न 13.
अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत। (5 अङ्काः)
(निम्नलिखित पद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
वायुमण्डलं भृशं दूषितं न हि निर्मलं जलम्।
कुत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम्।
करणीयं बहिरन्तर्जगति तु बहुशुद्धीकरणम्।
शुचि _________________।।
I. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (2 × 2 = 1 अङ्क)
(एक पद में उत्तर दीजिए।) (केवल दो प्रश्न)
(i) कीदृशं भक्ष्यं अस्ति?
उत्तराणि:
कुत्सितवस्तुमिश्रितं
(ii) कीदृशं जलं नास्ति?
उत्तराणि:
निर्मलं
(iii) समलं किमस्ति?
उत्तराणि:
धरातलम्
II. पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2 अङ्काः)
(पूर्ण वाक्य में उत्तर दीजिए।) (केवल दो प्रश्न)
(i) कीदृशं वायुमण्डलम्?
उत्तराणि:
भृशं दूषितं वायुमण्डलम्।
(ii) बहुशुद्धिकरणम् कुत्र करणीयम्?
उत्तराणि:
बहुशुद्धिकरणं बहिरन्तर्जगति करणीयम्।
(iii) बहिरन्तर्जगति किं करणीयम्?
उत्तराणि:
बहिरन्तर्जगति बहुशुद्धीकरण करणीयम्।
III. निर्देशानुसारम् उत्तरत। (1 × 2 = 2 अङ्काः)
(निर्देशानुसार उत्तर दीजिए।)
(आ) (i) ‘वारि’ इति पदस्य पर्यायपदं श्लोके किं प्रयुक्तम्?
(ii) ‘अभक्ष्यं’ इत्यस्य विलोमपदं श्लोके किं प्रयुक्तम्?
अथवा
(आ) (i) ‘बहुशुद्धीकरणम्’ इत्यस्य क्रियापदं श्लोके किम्?
(ii) ‘दूषितं’ इति पदस्य प्रत्ययः किम्?
उत्तराणि:
(अ) (i) जलं
(ii) भक्ष्यं
अथवा
(आ) (i) करणीयं
(ii) क्त प्रत्ययः
प्रश्न 14.
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत। (5 अङ्काः)
(निम्नलिखित नाट्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
व्याघ्रचित्रकौ: अरे किं वनराजपदाय सुपात्रं चीयते? एतदर्थं तु आवामेव योग्यौ। यस्य कस्यापि चयनं कुर्वन्तु सर्वसम्मत्या?
सिंहः तूष्णीं भव भोः। युवामपि मत्सदृशौ भक्षकौ न तु रक्षकौ। एते वन्यजीवाः भक्षकं रक्षकपदयोग्यं न मन्यन्ते अतएव विचारविमर्शः प्रचलति।
बकः सर्वथा सम्यगुक्तं सिंहमहोदयेन। वस्तुतः एवं सिंहेन बहुकालपर्यन्तं शासनं कृतं परमधुना तु कोऽपि पक्षी एव राजेति निश्चेतव्यम् अत्र तु संशीतिलेशस्यापि अवकाशः एव नास्ति।
सर्वे पक्षिणः (उच्चैः) आम्-आम् कश्चित् खगः एव वनराजः भविष्यति इति।
I. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (\(\frac {1}{2}\) × 2 = 1 अङ्क)
(एक पद में उत्तर दीजिए।) (केवल दो प्रश्न)
(i) के भक्षकं रक्षकपदयोग्यं न मन्यन्ते।
उत्तराणि:
वन्यजीवा:
(ii) ‘तूष्णी भव’ इति कः कथयति?
उत्तराणि:
सिंह:
(iii) कोऽपि पक्षी एव राजेति इति कः कथयति?
उत्तराणि:
बकः
II. पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2 अङ्काः)
(पूर्ण वाक्य में उत्तर दीजिए।) (केवल दो प्रश्न)
(i) केन बहुकालपर्यन्तं शासनं कृतम्?
उत्तराणि:
सिंहेन बहुकालपर्यन्तं शासनं कृतम्।
(ii) केन सर्वथा सम्यगुक्तम्?
उत्तराणि:
सिंहेन महोदयेन सर्वथा सम्यगुक्तम्।
(iii) कोऽपि वनराजः भविष्यति?
उत्तराणि:
कश्चित् खगः एव वनराजः भविष्यति।
III. निर्देशानुसारम् उत्तरत। (1 × 2 = 2 अङ्काः)
(निर्देशानुसार उत्तर दीजिए।)
(अ) (i) “एतदर्थं तु आवामेव योग्यौं” इत्यस्मिन् वाक्ये ‘आवाम्’ इति सर्वनामपदं काभ्यां प्रयुक्तम्?
(ii) “कश्चित् खगः एव वनराजः भविष्यति।” अत्र क्रियापदं किम्?
अथवा
(आ) (i) ‘रक्षक’ इति पदस्य विलोमपदं पद्यांशे किं प्रयुक्तम्?
(ii) ‘प्रसन्नता:’ इति पदस्य विलोमपदं किम्?
उत्तराणि:
(अ) (i) व्याघ्रचित्रकाभ्याम्
(ii) भविष्यति
अथवा
(आ) (i) भक्षकौ
(ii) दुःखी
प्रश्न 15.
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत। (1 × 4 = 4 अङ्काः)
(रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए।)
(i) बालभावात् शिवस्य मस्तके हिमकरः विराजते।
(ii) कुशलवौ रामम् उपसृत्य प्रणमतः।
(iii) ‘शिशुलालनम्’ इति पाठस्य रचयिता दिङ्नागः।
(iv) वयोऽनुरोधात् ‘शिशुजन:’ लालनीय भवति।
उत्तराणि:
(i) बालभावात् शिवस्य मस्तके कः विराजते?
(ii) कुशलवौ कम उपसृत्य प्रणमतः?
(iii) ‘शिशुलालनम्’ इति पाठस्य रचयिता कः?
(iv) वयोऽनुरोधात् कः लालनीय भवति?
प्रश्न 16.
(अ) मञ्जूषातः समुचितपदानि चित्वा अधोलिखित श्लोकस्य अन्वयं पूरयित्वा पुनः लिखत। (1 × 4 = 4 अङ्काः)
(मंजूषा से उचित पदों को चुनकर निम्नलिखित श्लोकों के अन्वय को पूरा करके पुनः लिखिए।)
क्रोधो हि शत्रुः प्रथमो नराणां,
देहस्थितो देहविनाशनाय।
यथास्थितः काष्ठगतो हि वह्निः,
स एव वह्निर्दहते शरीरम्।
अन्वयः क्रोधः हि (i) _________________ देहविनाशाय / देहस्थितः (ii) _________________ शत्रुः (अस्ति) यथा (iii) _________________ देहस्थितः वह्निः (भवति) सः एव वह्निः काष्ठम् दहति, तथा (iv) _________________ शरीरम् दहते, देहविनाशनाय।
मञ्जूषा – प्रथमः क्रोधः, नराणां, काष्ठगतः।
अथवा
(आ) अधोलिखित श्लोकस्य भावार्थम् मञ्जूषायाः उचितपदैः पूरयत।
(निम्नलिखित श्लोक का भावार्थ मंजूषा के उचित शब्दों से पूरा कीजिए।)
आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः।
तस्माद् रक्षेत् सदाचारं प्राणेभ्योऽपि विशेषतः।।
भावार्थ: विदूषां (i) _________________ इति तद् (ii) _________________ प्रथमो धर्म: (iii) _________________ प्राणेभ्योऽपि (iv) _________________ तस्माद् सदाचारं।
मञ्जूषा – आचारः, वचः, विशेषतः रक्षेत्।
उत्तराणि:
(i) नराणां
(ii) प्रथमः
(iii) काष्ठगतः
(iv) क्रोध:
अथवा
(i) वच:
(ii) आचार:
(iii) विशेषतः
(iv) रक्षेत्
प्रश्न 17.
अधोलिखितानि वाक्यानि घटनाक्रमानुसारं संयोज्य पुनः लिखत। (\(\frac {1}{2}\) × 8 = 4 अङ्काः)
(निम्नलिखित वाक्यों को घटना क्रम के अनुसार जोड़कर पुनः लिखिए।)
(i) अचिरादेव चण्डवातेन मेघरवैश्च सह प्रवर्षः समजायत।
(ii) तथापि दुर्बल सुते मातुः अभ्यधिका कृपा सहजैव।
(iii) अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक।
(iv) इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्।
(v) स च तामेवमसान्त्वयत् “गच्छ वत्से! सर्वं भद्रं जायेत।”
(vi) कृषकः हर्षातिरेकेण कर्षणाविमुखः सन् वृषभौ नीत्वा गृहमगात्।
(vii) सर्वेस्वपत्येषु जननी तुल्यवत्सला एव।
(viii) भूमौ पतिते स्वपुत्रं दृष्ट्वा सर्वधेनुनां मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन्।
उत्तराणि:
(viii) भूमौ पतिते स्वपुत्रं दृष्ट्वा सर्वधेनुनां मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन्।
(iii) अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक।
(iv) इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्।
(vii) सर्वेस्वपत्येषु जननी तुल्यवत्सला एव।
(ii) तथापि दुर्बल सुते मातुः अभ्यधिका कृपा सहजैव।
(v) स च तामेवमसान्त्वयत् “गच्छ वत्से! सर्व भद्रं जायेत।”
(i) अचिरादेव चण्डवातेन मेघरवैश्च सह प्रवर्षः समजायत।
(vi) कृषकः हर्षातिरेकेण कर्षणाविमुखः सन् वृषभौ नीत्वा गृहमगात्।
प्रश्न 18.
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत। (1 × 3 = 3 अङ्काः)
(निम्नलिखित वाक्यों में रेखांकित शब्दों के प्रसंगानुकूल उचित अर्थ चुनकर लिखिए।)
(i) पिता पुत्राय बाल्ये महत् विद्याधनं यच्छति।
(क) रामाय
(ख) नामाय
(ग) सुताय
(घ) कामाय
उत्तराणि:
(ग) सुताय
(ii) पक्वं फलं त्यक्त्वा अपक्वं फलं भुङ्क्ते।
(क) गमनइति
(ख) खादति
(ग) रोदिति
(घ) नरवादति
उत्तराणि:
(ख) खादति
(iii) सः भारवेदनया क्रन्दति स्म।
(क) जगति
(ख) क्रुद्धति
(ग) रुदति
(घ) गच्छति
उत्तराणि:
(ग) रुदति
The post CBSE Sample Papers for Class 10 Sanskrit Set 8 with Solutions appeared first on Learn CBSE.
📚 NCsolve - Your Global Education Partner 🌍
Empowering Students with AI-Driven Learning Solutions
Welcome to NCsolve — your trusted educational platform designed to support students worldwide. Whether you're preparing for Class 10, Class 11, or Class 12, NCsolve offers a wide range of learning resources powered by AI Education.
Our platform is committed to providing detailed solutions, effective study techniques, and reliable content to help you achieve academic success. With our AI-driven tools, you can now access personalized study guides, practice tests, and interactive learning experiences from anywhere in the world.
🔎 Why Choose NCsolve?
At NCsolve, we believe in smart learning. Our platform offers:
- ✅ AI-powered solutions for faster and accurate learning.
- ✅ Step-by-step NCERT Solutions for all subjects.
- ✅ Access to Sample Papers and Previous Year Questions.
- ✅ Detailed explanations to strengthen your concepts.
- ✅ Regular updates on exams, syllabus changes, and study tips.
- ✅ Support for students worldwide with multi-language content.
🌐 Explore Our Websites:
🔹 ncsolve.blogspot.com
🔹 ncsolve-global.blogspot.com
🔹 edu-ai.blogspot.com
📲 Connect With Us:
👍 Facebook: NCsolve
📧 Email: ncsolve@yopmail.com
😇 WHAT'S YOUR DOUBT DEAR ☕️
🌎 YOU'RE BEST 🏆