⚙️
Welcome to NCSOLVE — National Curriculum Solver of Learning Volume Environment! Explore Free NCERT Solutions, CBSE Sample Papers, and AI Tools! Empowering Education Worldwide with Advanced AI Technology! Access Cultural Insights, AI-Based Learning, and Free Hidden Books! Prepare for NEET, JEE, UPSC, and Other Competitive Exams with Exclusive Resources! Learn Smarter, Faster, and Better with NCSOLVE Today!

Select Class

Ads 🛡️

CBSE Sample Papers for Class 10 Sanskrit Communicative Set 10 with Solutions - #NCSOLVE 📚

0

Students must start practicing the questions from CBSE Sample Papers for Class 10 Sanskrit Communicative with Solutions Set 10 are designed as per the revised syllabus.

CBSE Sample Papers for Class 10 Sanskrit Communicative Set 10 with Solutions

अवधि: – होरात्रयम्
पूर्णाङ्काः – 80

सामान्यनिर्देशा:-

  1. कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 10 पृष्ठानि मुद्रितानि सन्ति।
  2. कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रश्नाः सन्ति।
  3. अस्मिन् प्रश्नपत्रे चत्वारः भागाः सन्ति-
    • ‘क’ भागः – अपठितावबोधनम् (10 अङ्काः)
    • ‘ख’ भागः – रचनात्मक कार्यम् (15 अङ्काः)
    • ‘ग’ भागः – अनुप्रयुक्तव्याकरणम् (25 अङ्काः)
    • ‘घ’ भागः – पठितावबोधनम् (30 अङ्काः)
  4. प्रत्येकं भागम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।
  5. उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्क अवश्यं लेखनीयः।
  6. प्रश्नस्य क्रमाङ्क प्रश्नपत्रानुसारम् एवं लेखनीयः।
  7. सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।
  8. प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।

भाग ‘क’ – अपठित अवबोधनम् (10 अंङ्काः)

प्रश्न 1.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृत भाषायां लिखत। (10)
वैज्ञानिका: सञ्चारसाधनेषु प्रतिदिनं नवीनतमान् आविष्कारान् कुर्वन्ति येन सन्देशप्रेषणे अधिकतमा सुविधा स्यात्। चलभाषित्रयन्त्रम् (मोबाइल) तादृशम् एव लोकप्रियं यन्त्रम्। बालाः, वृद्धाः, युवकाः पुरुषाः, महिला, नागरिकाः, ग्रामीणाः वा, सर्वेषाम् एव एतत् कर्णभूषणं जातम्। यानानि आरूढाः, कार्यालयेषु कार्यं कुर्वन्तः, मार्गेषु चलन्तः, सभागारेषु प्रवचनं शृण्वन्तः जनाः अस्य ध्वनिं श्रुत्वा वार्तामग्नाः भवन्ति। अविवेकपूर्णः अस्य प्रयोगः कार्येषु व्यवधानं करोति। मार्गेषु दुर्घटनाः भवन्ति। सभागारेषु कक्षासु, अन्यसभासु वा अव्यवस्था भवति। सत्यम् अस्ति यत् आविष्कारः कदापि हानिकरः न, परन्तु तस्य दुष्प्रयोगेण जीवनस्य शान्तिः नश्यति। वस्तुतः वयं यन्त्रस्य अधीनाः न स्यात् अपितु यन्त्रम् अस्माकम् अधीनं स्यात्। ते एव बुद्धिमन्तः ये विज्ञानस्य सदुपयोगं कुर्वन्ति।

(अ) एकपदेन उत्तरत- (3 × 1 = 3)
(i) वर्तमानकाले किं लोकप्रियं सञ्चारसाधनम् अस्ति?
(ii) यन्त्रस्य दुष्प्रयोगेण कस्य शान्तिः नश्यति?
(iii) यन्त्रस्य कीदृश: प्रयोगः कार्येषु व्यवधानं करोति?
उत्तर:
(i) चलभाषितयन्त्रम् (मोबाइल:)
(ii) जीवनस्य
(iii) अविवेकपूर्णः प्रयोगः

(आ) पूर्णवाक्येन उत्तरत- (3 × 1 = 3)
(i) के खलु बुद्धिमन्तः सन्ति?
(ii) चलभाषियन्त्रस्य ध्वनिना कक्षासु किं भवति?
(iii) वैज्ञानिका: सञ्चारसाधनेषु किमर्थ नवीनतमान् अविष्कारान् कुर्वन्ति?
उत्तर:
(i) ते एव बुद्धिमन्तः ये विज्ञानस्य सदुपयोगं कुर्वन्ति।
(ii) चलभाषितयन्त्रस्य ध्वनिना कक्षासु अव्यवस्था भवति।
(iii) वैज्ञानिकाः सञ्चार साधनेषु नवीनतमान् आविष्कारान् कुर्वन्ति यत् सन्देशप्रेषणे अधिकतमा सुविधा स्यात्।

(इ) गद्यांशस्य समुचितं शीर्षकं लिखत। (1 × 1 = 1)
उत्तर:
“चलभाषितयन्त्रम्ः – उपयोगः च दुरुपयोगः च”

(ई) यथानिर्देशं उत्तरत- (3 × 1 = 3)
(i) ‘सन्देशप्रेषणे अधिकतमा सुविधा स्यात्।’ अत्र किं विशेषणपदं प्रयुक्तम्?
(A) संदेशप्रेषणे
(B) अधिकतमा
(C) सुविधा
(D) स्यात्
उत्तर:
(B) अधिकतमा

CBSE Sample Papers for Class 10 Sanskrit Communicative Set 10 with Solutions

(ii) ‘तस्य दुष्प्रयोगेण जीवनस्य शान्तिः नश्यति। अत्र कर्तृपदं किं प्रयुक्तम्?
(A) तस्य
(B) जीवनस्य
(C) शान्तिः
(D) दुष्प्रयोगेण
उत्तर:
(C) शान्ति:

(ii) ‘आर्कण्य’ इति अर्थे गद्यांशे किं पदं प्रयुक्तम्?
(A) श्रुत्वा
(B) सर्वेषाम्
(C) सुविधा
(D) कार्य
उत्तर:
(A) श्रुत्वा

भाग ‘ख’ – रचनात्मक कार्यम (15 अंङ्का)

प्रश्न 2.
भवान् सङ्गमविहार क्षेत्रस्य निवासी अस्ति। भवान् स्वनगरस्य स्वच्छतां कारयितुम् इच्छति। तदर्थ नगर निगमाधिकारि-महोदयाय लिखिते पत्रे मञ्जूषापदसहायतया रिक्तस्थानानि पूरयत- (10 × ½ = 5)
X-सेवायाम्,
नगरनिगमधिकारि महोदय:,
(i) _______________ दिल्ली।
विषय: वीथिकासु स्वच्छतायाः सन्दर्भ (ii) _______________
मान्यवर
अहं सङ्गमविहारक्षेत्रस्य (iii) _______________ अस्मि। अतः सूचयितुं वाञ्छामि यत् अद्यत्वे (iv) _______________ सर्वत्र अवकराणां राशि: अधिक: दृश्यते। तानि अवकराणि निगलितानि भूत्वा (v) _______________ जायमानानि सन्ति। अनेन संक्रमणस्य (vi) _______________ अत्यधिका अस्ति। केचन जना: अत्र (vii) _______________ अपि जाताः सन्ति। परम् अवकरम् अपसारयितुं कापि व्यवस्था न दृश्यते। (viii) _______________ अपि बहुभ्यः दिनेभ्यः न आगतम् अस्ति। अतः प्रार्थयामि यत् अस्माकं वीथिकानां (ix) _______________ समुचितां व्यवस्थां कारयित्वा सर्वान् नगरवासिनः (x) _______________ रक्षतु इति।
सधन्यवादम्
भवदीयः
नगरवासी

मञ्जूषा – आशङ्का, रुग्णाः, अवकरवाहनम्, स्वच्छतायै, रोगेभ्यः, सङ्गमविहारम्, आवेदनपत्रम्, निवासी, वीथिकासु, दुर्गन्ध-युक्तानि।
उत्तर:
सेवायाम्,
नगरनिगम-अधिकारि महोदय:,
(i) सङ्गमविहारम्।
विषयः – वीथिका स्वच्छतायाः सन्दर्भे (ii) आवेदनपत्रम्।
मान्यवर!
अहं सङ्गमविहारक्षेत्रस्य (iii) निवासी अस्मि। अतः सूचयितुं वाञ्छामि यत् अद्यत्वे (iv) वीथिकासु सर्वत्र अवकरार्णा राशि: अधिकः दृश्यते। तानि अवकराणि निगलितानि भूत्वा (v) दुर्गन्धयुक्तानि जायमानानि सन्ति। अनेन सङ्क्रमणस्य (vi) आशङ्का अत्यधिका अस्ति। केचन जनाः अत्र (vii) रुग्णा अपि जाताः। परम् अवकरम् अपसारयितुं कापि व्यवस्था न दृश्यते। (viii) अवकरवाहनम् अपि बहुभ्यः दिनेभ्यः न आगतम् अस्ति। अतः प्रार्थयामि यत् अस्माकं वीथिकानां (ix) स्वच्छतायै समुचितां व्यवस्थां कारयित्वा सर्वान् नगरवासिन: (x) रोगेभ्य: रक्षतु इति।
सधन्यवादम्
भवदीयः
नगरवासी

प्रश्न 3.
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायाः सहायतया पञ्च वाक्यानि रचयत- (5 × 1 = 5)
CBSE Sample Papers for Class 10 Sanskrit Communicative Set 10 with Solutions Q3
मञ्जूषा – रक्षणीयम्, अन्ये, क्षिपति, सह, अवशिष्टः, अङ्कितम्, माता, वाहनम्, धूम:, जीवनम् प्राणवायुः, बालकः, कर्तिताः वृक्षाः, पर्यावरणम्
उत्तर:
संभावित-वाक्या:-

  1. चित्रे माता बालकसह पर्यावरणस्य रक्षणे प्रवृत्ता अस्ति।
  2. बालकः अवशिष्टं पात्रे क्षिपति।
  3. चित्रे धूमयुक्तानि वाहनानि पर्यावरणं दूषयन्ति।
  4. प्राणवायुः जीवनाय आवश्यकं अस्ति।
  5. वृक्षाः जीवनस्य कर्तारः सन्ति।

अथवा

‘सत्संगतिः’ इत्यस्मिन् विषये मञ्जूषायाः सहायतया संस्कृतभाषायां एकं अनुच्छेदं लिखत।
मञ्जूषा – सताम्, सर्वम् ददाति हिताय, योजयते, सङ्गः, सत्सङ्गत्याः, प्रभावः, नित्यम्, अद्भुतम्
उत्तर:
संभावित वाक्याः

  1. सत्सङ्गतिः अद्भुतम् अस्ति।
  2. सतां सङ्गः सर्वथां हिताय योजयते।
  3. सत्सङ्गत्या प्रभाव: अद्वितीयः अस्ति।
  4. सत्सङ्ग्त्याः वयम् जीवने सफलाः भवामः।
  5. सत्संङ्गतिः जीवने आवश्यकी अस्ति।

CBSE Sample Papers for Class 10 Sanskrit Communicative Set 10 with Solutions

प्रश्न 4.
अधोलिखित-कथां मञ्जूषायाः सहायतया पूरयत- (10 × ½ = 5)
एक: बालक: (i) _______________ । तस्य नाम आलः आसीत्। एकदा सः (ii) _______________ अपृच्छत्- ‘मातः! मूर्खः कः भवति? माता (iii) _______________’ यः बुद्धिहीनः स एव मूर्खः भवति। एतच्छ्रुत्वा सः बालकः (iv) _______________ अभवत् अकथयत् च- “तदा अहं (v) _______________ अस्मि यतोहि विद्यालये सर्वे मां मूर्खः। इति कथयन्ति। अधुना अहं विद्यालयं न गमिष्यामि। माता तम् अवबोधयत् पुत्र निराश: मा भव। त्वं मूर्खः नास्ति। अहं त्वां बुद्धिमन्तं (vi) _______________ ।” माता बालकं प्रतिदिनम् अपाठयत्। सः बालकः अपि (vii) _______________ अपठत् मातुः सेवां च अकरोत्। एकस्मिन् दिवसे सः महान् (viii) _______________ अभवत्। “तस्य नाम थामस अल्वा एडीसन” आसीत्। विद्युत्-दीपक:, ग्रामोफोन-यन्त्रम्, चलचित्रयन्त्रम् आदीनि (ix) _______________ अस्य एवं महावैज्ञानिकस्य आविष्काराः सन्ति। एषः महान् वैज्ञानिकः अकथयत्” मम माता एव मम मार्गदर्शिका (x) _______________ च अस्ति।”

मञ्जूषा – बुद्धिहीनः, खिन्नः, शिक्षिका, वैज्ञानिकः, आसीत्, परिश्रमेण, मातरम्, वस्तूनि, अवदत्, करिष्यामि।
उत्तर:
एक: बालक: (i) आसीत्। तस्य नाम थामस अल्वा एडीसन आसीत्। एकदा सः (ii) मातरम् अपृच्छत्- “मातः! मूर्खः कः भवति? माता (iii) अवदत्” यः बुद्धिहीनः स एव मूर्ख: भवति। एतच्छ्रुत्वा सः बालकः (iv) खिन्नः अभवत् अकथयत् च- “तदा अहं (v) बुद्धिहीनः अस्मि, यतोहि विद्यालये सर्वे मां मूर्खः।” इति कथयन्ति। अधुना अहं विद्यालयं न गमिष्यामि। माता तम् अवबोधयत् “पुत्र निराशः मा भव। त्वं मूर्खः नास्ति। अहं त्वां बुद्धिमन्तं (vi) करिष्यामि।” माता बालकं प्रतिदिनम् अपाठयत्। सः बालकः अपि (vii) परिश्रमेण अपठत् मातुः सेवां च अकरोत्। एकस्मिन् दिवसे सः महान् (viii) वैज्ञानिकः अभवत्। “तस्य नाम थामस अल्वा एडीसन” आसीत्। विद्युद्- दीपक:, ग्रामोफोन-यन्त्रम्, चलचित्रयन्त्रम् आदीनि (ix) वस्तूनि अस्य एवं महावैज्ञानिकस्य आविष्काराः सन्ति। एषः महान् वैज्ञानिकः अकथयत् “मम माता एव मम मार्गदर्शिका (x) शिक्षिका च अस्ति।”

अथवा

“उद्यमः” विषयं अधिकृत्य दत्तं संवादं मञ्जूषाया: सहायतया पूरयत- (5 × 1 = 5)
(सर्वेशः सोमेश च विद्यालयस्य अल्पाहारगृहे उपविष्टौ। एकादशवर्षीयः मनोजः आगत्य चायपात्राणि स्थापयति।)
सर्वेश: भो! कतिदिनेभ्यः अत्र कार्यं करोषि? पूर्व तु न दृष्टः?
मनोज: (i) _______________
सोमेश: – एवम्! सप्ताहः जातः। कुतः आगत:?
मनोज: – (ii) _______________
सोमेश: – अध्ययनं त्यक्त्वा किमर्थं पाटलिपुत्रतः अत्र आगत:?
मनोज: – किं करोमि। मन्दभाग्यस्य मम पिता दुष्टैः पूर्वं हतः।
(iii) _______________ अनाथः अहं कथं निर्वाहं कुर्याम्?
सर्वेश: – अहो। महदुःखम् परं पठनं न वाञ्छसि किम्?
मनोज: – (iv) _______________
सोमेश: – एवं हतोत्साही मा भव। विद्यालये रात्रौ कक्षा भवति। किमपि पठितं न वा?
मनोज: – केवलं द्वितीयकक्षा उत्तीर्णा।
सर्वेश: – सायं षड्वादने आगच्छतु। यदि मनोयोगेन पठिष्यसि तर्हि छात्रवृत्तिमपि प्राप्स्यसि।
मनोज: – (v) _______________
सोमेश: – सर्व तव अधीनम् एव उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः।

मञ्जूषा
(i) बहु उपकृतम्। ईश्वरः भवते सर्वां सिद्धिं प्रदास्यति।
(ii) अवश्यम् इच्छामि। परं शिक्षा नास्ति मे भाग्ये।
(iii) श्रीमन्! पाटलिपुत्रतः आगतोऽस्मि।
(iv) श्रीमन्। सप्ताहः एव जातः।
(v) इदानीं मम माता अपि दिवङ्गता।
उत्तर:
सर्वेश: – भो! कतिदिनेभ्यः अत्र कार्यं करोषि? पूर्वं तु न दृष्टः?
मनोज: – (i) श्रीमन्! सप्ताहः एव जातः।
सोमेश: – एवम्! सप्ताहः जातः। कुतः आगतः?
मनोज: – (ii) श्रीमन्! पाटलिपुत्रतः आगतोऽस्मि।
सोमेश: – अध्ययनं त्यक्त्वा किमर्थं पाटलिपुत्रतः अत्र आगत:?
मनोज: – किं करोमि। मन्दभाग्यस्य मम पिता दुष्टैः पूर्वं हतः। (iii) इदानीं मम माता अपि दिवङ्गता। अनाथः अहं कथं निर्वाहं कुर्याम्?
सर्वेश: – अहो महदुःखम् परं पठनं न वाञ्छसि किम्?
मनोज: – (iv) अवश्यम् इच्छामि। परं शिक्षा नास्ति मे भाग्ये।
सोमेश: – एवं हतोत्साही मा भव। विद्यालये रात्रौ कक्षा भवति। किमपि पठितं न वा?
मनोज: – केवलं द्वितीयकक्षा उत्तीर्णा।
सर्वेश: – सायं षड्वादने आगच्छतु। यदि मनोयोगेन पठिष्यसि तर्हि छात्रवृत्तिमपि प्राप्स्यसि।
मनोज: – (v) बहु उपकृतम्। ईश्वरः भवते सर्वां सिद्धिं प्रदास्यति।
सोमेश: – सर्व तव अधीनम् एव। उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः।

भाग ‘ग’ – अनुप्रयुक्त-व्याकरणम् (25 अंङ्काः)

प्रश्न 5.
(अ) निम्नलिखितेषु वाक्येषु रेखाङ्कितपदानां सन्धिं विच्छेदं वा कृत्वा लिखत- (4 × 1 = 4)
(i) वाङ्गमय तपोच्यते।
(ii) जनकल्याणकर्मसु रतः + असौ पुत्रवत् प्रजाः पालयति स्म।
(iii) हे प्रभो! मह्यम् सत् + मतिम् देहि।
(iv) विशालौ पर्वताविव।
उत्तर:
(i) तप + उच्यते
(ii) रतोऽसौ
(iii) सन्मतिम्
(iv) पर्वतौ + इव

अथवा

(आ) अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत- (4 × 1 = 4)
(क) सोऽपि बालकः संस्कृतम् न जानाति।
(ख) विहगाः गगने स्वत् + छन्दम् विहरन्ति।
(ग) शिष्यः गुरुम्पृच्छति।
(घ) वेदानां सामवेदोऽस्मि।
उत्तर:
(i) सः + अपि
(ii) स्वच्छन्दम्
(iii) गुरुं पृच्छति
(iv) सामवेदः अस्मि

CBSE Sample Papers for Class 10 Sanskrit Communicative Set 10 with Solutions

प्रश्न 6.
रेखाङ्कितपदानां समासं विग्रहं वा कृत्वा लिखत- (4 × 1 = 4)
(i) वाष्पयानमाला संधावति।
(A) वाष्पयानेषु माला
(B) वाष्पयानेभ्यः माला
(C) वाष्पयानानां माला
(D) वाष्पयानाय माला
उत्तर:
(C) वाष्पयानानां माला

(ii) किं द्वयोरप्येकमेव प्रतिवचनम्।
(A) वचने वचने प्रति
(B) वचनं वचनं प्रति
(C) वचनात् वचनात् प्रति
(D) वचनस्य वचनस्य प्रति
उत्तर:
(B) वचनं वचनं प्रति

(iii) तत्र राजसिंह नाम राजपुत्रः वसति स्म।
(A) राज्ञः पुत्रः
(B) राज्ञे पुत्रः
(C) राज्ञा पुत्र:
(D) राजा पुत्र:
उत्तर:
(A) राज्ञ: पुत्र:

(iv) तस्मिन्नेव काले व्याघ्रचित्रकौ अपि जलपानाय आगतौ।
(A) व्याघ्र: चित्रको च
(B) व्याघ्रौ चित्रकौ च
(C) व्याघ्रः च चित्रकः च
(D) व्याघ्र: चित्रक:
उत्तर:
(C) व्याघ्रः च चित्रक: च

प्रश्न 7.
अधोलिखितवाक्येषु रेखाङ्कितपदेषु प्रकृति-प्रत्ययान् संयोग्य विभज्य वा लिखत- (4 × 1 = 4)
(i) कोकिला मधुरस्वरेण गायति।
(A) कोकिल + आप्
(B) कोकिला + आ
(C) कोकिल + टाप्
(D) कोकिल + आ
उत्तर:
(C) कोकिल + टाप्

(ii) गंगा नदी हिमालयात् उद्भवति।
(A) नद + ङीप्
(B) नद् + इन्
(C) नद + ई
(D) नदी + इ
उत्तर:
(A) नद + ङीप्

(iii) बुद्धि + मतुप् जनः सर्वत्र आदरं लभते।
(A) बुद्धिमती
(B) बुद्धिमन्तौ
(C) बुद्धिमान्
(D) बुद्धिमन्तः
उत्तर:
(C) बुद्धिमान्

(iv) प्रकृतेः रमणीयता मनोरमा भवति।
(A) रमणीय + ता
(B) रमणीय + आ
(C) रमणीय + तल्
(D) रमणीय + त्व
उत्तर:
(C) रमणीय + तल्

(v) विद्वत्वं च नृप + त्वं च नैव तुल्यं कदाचन।
(A) नृपत्व
(B) नृपत्व:
(C) नृपत्वाम्
(D) नृपत्वम्
उत्तर:
(D) नृपत्वम्

प्रश्न 8.
(अ) वाच्यानुसार कोष्ठकेषु प्रदत्तपदैः रिक्तस्थानानि पूरयत- (3 × 1 = 3)
संजय: – किं विद्यालये छात्राः श्लोकाः पठन्ति?
रमेशः – आम्, तैः स्वरसहितम् श्लोकान् (i) _______________
संजयः – आचार्यः कुत्र पाठ (ii) _______________ ?
रमेशः – आचार्येण दशमी कक्षायां (iii) _______________ पाठ्यते।

मञ्जूषा – पाठयति, गायन्ति, पाठः
उत्तर:
संजय: – किं विद्यालये छात्राः श्लोकान् पठन्ति?
रमेशः – आम्, तैः स्वरसहितम् श्लोकान् (i) गायन्ते
संजय: – आचार्यः कुत्र पाठं (ii) पाठयति?
रमेशः – आचार्येण दशमी कक्षायां (iii) पाठः पाठ्यते।

अथवा

(आ) वाच्यानुसारम् उचितपदैः रिक्तस्थानानि पूरयित्वा वाक्यानि पुनः लिखत- (3 × 1 = 3)
(i) माता पुत्राय भोजनं _______________ (पच्)।
(ii) मया _______________ (श्लोक) गायन्ते।
(iii) _______________ (अध्यापिका) छात्रा: पाठ्यन्ते।
उत्तर:
(i) माता पुत्राय भोजनं पचति।
(ii) मया श्लोकाः गायन्ते।
(iii) अध्यापिकया छात्राः पाठ्यन्ते।

प्रश्न 9.
उचितकालबोधकपदैः रिक्तस्थानानि पूरयत- (3 × 1 = 3)
(i) सौम्या (2:15) _______________ गृहं प्रत्यागच्छति।
(ii) वैभव: रात्रौ (10:00) _______________ शयते।
(iii) वयं सर्वे (7:45) _______________ विद्यालयम् अगच्छामः।
उत्तर:
(i) सौम्या (2:15) सपादद्विवादनम्? गृहं प्रत्यागच्छति।
(ii) वैभव: रात्रौ (10:00) दशवादनम्? शयते।
(iii) वयं सर्वे (7:45) पादोनअष्ट वादनम्? विद्यालयम् अगच्छामः।

CBSE Sample Papers for Class 10 Sanskrit Communicative Set 10 with Solutions

प्रश्न 10.
मञ्जूषायाः उचितैः अव्ययैः चित्वा रिक्तस्थानानि पूरयत- (केवलं प्रश्नचतुष्टयम्) (4 × 1 = 4)
(i) _______________ रात्रिं सञ्जाता, गृहात् बहिः मा गच्छ।
(ii) दग्धा अश्वा: _______________ धावन्।
(iii) आकाशे मेघा: _______________ गर्जन्ति।
(iv) _______________ सोमवासरः आसीत्।

मञ्जूषा – उच्चौ, इतस्ततः, ह्यः, इदानीम्
उत्तर:
(i) इदानीम् रात्रिं सञ्जाता, गृहात् बहिः मा गच्छ।
(ii) दग्धाः अश्वाः इतस्तत: धावन्।
(iii) आकाशे मेघाः उच्चैः गर्जन्ति।
(iv) ह्यः सोमवासरः आसीत्।

प्रश्न 11.
निम्नवाक्येषु रेखाङ्कितपदानां संशोधनं कृत्वा पुनर्लिखत। (3 × 1 = 3)
(i) भारति! तव अयं कोश: अपूर्व विद्यते।
(A) अपूर्व:
(B) अपूर्वा
(C) अपूर्वा:
(D) अपूर्वाणि
उत्तर:
(A) अपूर्व:

(ii) नास्ति रागसमानि दुःखम्।
(A) राग्समः
(B) रागसमा
(C) रागसमम्
(D) रागसमे
उत्तर:
(C) रागसमम्

(iii) बोधिसत्त्वः शिवीनां राजा अभवम्।
(A) अभवः
(B) अभवत्
(C) अभवम्
(D) अभवन्
उत्तर:
(B) अभवत्

भाग ‘घ’ – पठितावबोधनम् (30 अंङ्काः)

प्रश्न 12.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि उत्तरपुस्तिकायां लिखत- (5)
अस्ति कर्मपुरनाम्नि नगरे प्रच्छन्नभाग्य- नामधेयः कश्चित् कुमारः। बाल्ये वयसि विद्यापराङ्मुखः स केनचित् दुष्टबुद्धिनाम्ना चौरेण सह चौर्यकर्मणि निरतः सञ्जातः। एकदा सः दुष्टबुद्धिना सार्धं कस्यचित् श्रेष्ठिनः गेहे धनहरणार्थं ग्रामान्तरं प्रस्थितः। अथ व्रजन्तौ तौ गर्तसंकुले मार्गे क्रीडतः कांश्चित् बालकान् प्रेक्ष्य अवदताम् भो भो बालकाः। कथमत्र नतोन्नते विषमे मार्गे क्रीडथ? यदि कश्चित् गर्ते पतेत् तर्हि स विकलाङ्गो भूत्वा चिरं क्लेशम् अनुभवेत्। तच्छ्रुत्वा तेषु कश्चित् उद्दण्डः बालकः उवाच-अयि भो! यद्येवं तर्हि कथं भवन्तौ सुपथं परित्यज्य अनेन कुपथेन गन्तुं प्रवृत्तौ? अपि इदं श्रेयस्करम्?

(i) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × ½ = 1)
(क) प्रच्छन्नभाग्यः कस्मिन् नगरे अवसत्?
(ख) प्रच्छन्नभाग्यः कस्य गृहे धनहरणार्थं ग्रामान्तरं प्रस्थित:?
(ग) बालकः कीदृशः आसीत्?
उत्तर:
(क) कर्मपुरनाम्नि नगरे
(ख) श्रेष्ठिनः गृहे
(ग) उद्दण्डः

(ii) पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × 1 = 2)
(क) उद्दण्डः बालकः किमकथयत्?
(ख) प्रच्छन्न भाग्य: केन सार्धम् कस्य गेहे किमर्थम् ग्रामान्तरं प्रस्थित:?
(ग) प्रच्छन्न भाग्यः कस्मिन् नगरे वसति स्म?
उत्तर:
(क) उद्दण्डः बालकः अकथयत्- “अयि भो। यद्येवं तर्हि कथं भवन्तौ सुपथं परित्यज्य अनेन कुपथेन गन्तुं प्रवृत्तौ? अपि इदं श्रेयस्करनम्?
(ख) प्रच्छन्नभाग्यः दुष्टबुद्धिना सह, श्रेष्ठिनः गृहे धनहरणार्थं ग्रामान्तरं प्रस्थितः।
(ग) प्रच्छन्न भाग्यः कस्मिन् कर्मपुरनाम्नि नगरे वसति स्म।

(iii) (अ) निर्देशानुसारम् उत्तरत- (2 × 1 = 2)
(क) ‘गर्तसंकुले’ इति विशेषणपदस्य विशेष्यपदं किम्?
(ख) ‘दृष्ट्वा’ इत्यर्थे अत्र किम् पदं प्रयुक्तम्?
उत्तर:
(क) मार्गे
(ख) प्रेक्ष्य

अथवा

(आ) निर्देशानुसारम् उत्तरत-
(क) ‘अवदताम्’ अस्य किं कर्तृपदं अत्र प्रयुक्तं?
(ख) ‘सह’ इति पदस्य किं पर्यायपदं अत्र प्रयुक्तम्?
उत्तर:
(क) तौ
(ख) सार्धम्

प्रश्न 13.
अधोलिखितं पद्यान्शं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि उत्तरपुस्तिकायां लिखत- (5)

आचार्यात्पादमादत्ते पादं शिष्यः स्वमेधया।
कालेन पादमादत्ते पादं सब्रह्मचारिभिः॥

(i) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × ½ = 1)
(क) कः स्वमेधया गृह्णाति?
(ख) शिक्षाया: तृतीयांशं केन लभते?
(ग) शिष्यः कस्मात् पादम् आदत्ते?
उत्तर:
(क) शिष्यः
(ख) सहब्रह्मचारिभिः
(ग) आचार्यात्

(ii) पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × 1 = 2)
(क) आचार्यात् कियत् भागं शिष्यः आदत्ते?
(ख) शिक्षायाः प्रथमं पादम् आचार्यात् कः आदत्ते?
(ग) शिष्यः काभि: चतुर्थांशं आदत्ते
उत्तर:
(क) आचार्यात् शिष्यः एकं पादम् आदत्ते।
(ख) प्रथमं पांद शिष्यः आचार्यात् आदत्ते।
(ग) शिष्यः सब्रह्मचारिभि: चतुर्थांशं आदत्ते।

(iii) (अ) निर्देशानुसारम् उत्तरत। (2 × 1 = 2)
(क) ‘समयेन’ इत्यर्थे श्लोके किं पदं प्रयुक्तम्?
(ख) ‘आदत्ते’ इति पदस्य कर्तृपदं किम् अस्ति?
उत्तर:
(क) कालेन
(ख) शिष्यः

अथवा

(आ) निर्देशानुसारम् उत्तरत।
(क) ‘दत्ते’ अस्य किं विलोम पदं प्रयुक्तम्?
(ख) ‘बुद्धि:’ इति पदस्य किं पर्यायपदम् अत्र प्रयुक्तम्?
उत्तर:
(क) आदत्ते
(ख) मेधा / मेधया

CBSE Sample Papers for Class 10 Sanskrit Communicative Set 10 with Solutions

प्रश्न 14.
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि उत्तरपुस्तिकायां लिखत। (5)
(स्थानम् – सरस्तीरम्। समयः प्रभातवेला। तत्र राजहंस हंसी च विहरतः। नेपथ्ये काकध्वनिः श्रूयते।)
राजहंसः – अये। किन्नु खलु सरस्तीरे विहरति मयि केनापि कर्कशैः ‘का का’ शब्दैः वातावरणम् आकुलीक्रियते?
राजहंसी – भर्तः। काकात् अन्यः को भवितुमर्हति? अस्य वर्णः अपि कृष्ण, कर्म अपि कृष्णम्। मेध्यम् अमेध्यं सर्वमेव भक्षयति। कर्णकटुशब्दैः ….
काक: – (प्रविश्य सक्रोधम्) आः। किम् उक्तवती भवती? यदि अहे कृष्णवर्णः तर्हि श्रीरामस्य वर्णः कीदृश:? श्रीवासुदेवस्य वर्णः कीदृश:? मुग्धे। अहं तु अतीव कर्तव्यपरायणः। प्रभाते ‘का का’ ध्वनिना सुप्तान् प्रबोधयामि कर्मसु च विनियोजयामि।
राजहंस: – हूं! किमनेन? एतत् कार्य तु कुक्कुटोऽपि करोति।
काक: – (विहस्य) कुक्कुट। अरे अद्य कुतः कुक्कुटा नगरेषु। अहमेव सर्वत्र सुलभः।
राजहंसी – भो: भो वाचाल। स्वीयैः कटुभिः क्वणितैः जनजागरणात् अन्यत् तु किमपि न करोषि?
काक: – अहो अज्ञानं भवत्याः! अरे। यस्य गृहस्य भित्तौ स्थित्वा आलपामि जनाः प्रिवस्य आगमनंसङ्केतं मत्वाः इष्यन्ति। किं बहुना। अहं तु एतादृशः सत्यप्रियः यत् मातरः शिशून् कथयन्ति अनृतं वदसि चेत् काक: दशेत्।” अस्माकम् ऐक्यं तु जगत्प्रसिद्धम्। सर्वथा जागरूकोऽहं छात्राणां कृते आदर्श एव किं न श्रुतं काकचेष्टा, बकध्यानम्….

(i) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × ½ = 1)
(क) राजहंसस्य कान्तारे कस्य कर्कशः शब्दः श्रुतः?
(ख) काकः प्रभाते किं करोति?
(ग) श्रीरामस्य तथा श्रीवासुदेवस्य वर्णः कः आसीत्?
उत्तर:
(क) काकस्य
(ख) सुप्तान् प्रबोधयति।
(ग) कृष्णः

(ii) पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × 1 = 2)
(क) राजहंसी काकं विषये किं अवदत्?
(ख) काकः स्वीयं कार्यं कथं वर्णयति?
(ग) राजहंसः काकस्य कार्यं कस्य कार्येण तुलयति?
उत्तर:
(क) राजहंसी काकं विषये अवदत्-काकः कृष्णवर्णः, सर्वं मेध्यामेध्यं खादति।
(ख) काकः स्वीयं कार्यं वर्णयति जनान् प्रबोधयामि, आगमनसंकेतं ददामि।
(ग) राजहंसः काकस्य कार्यं कुक्कुटस्य कार्येण तुलयति।

(iii) (अ) निर्देशानुसारम् उत्तरत- (2 × 1 = 2)
(क) “केनापि कर्कशै: ‘का का’ शब्दैः वातावरणम् आकुलीक्रियते?” अत्र किं विशेषणपदं प्रयुक्तम्?
(ख) “अहो अज्ञानं भवत्याः” अत्र ‘भवत्याः’ सर्वनाम कस्मै पप्रयुक्तम्?
उत्तर:
(क) कर्कशैः
(ख) राजहंस्या:

अथवा

(आ) निर्देशानुसारम् उत्तरत।
(क) “स्वीयैः कटुभिः क्वणितै:….” अत्र किं विशेषण-पदं प्रयुक्तम्?
(ख) “सर्वथा जागरूकोऽहं छात्राणां कृते आदर्श एव” अत्र किं कर्तृपदम्?
उत्तर:
(क) कटुभिः
(ख) अहम्

प्रश्न 15.
रेखाङ्कितपदानि आवृत्य प्रश्ननिर्माणं कृत्या वाक्यानि पुनः लिखत। (5 × 1 = 5)
(i) अर्थिनः धनलाभमात्रेण सन्तोषं भजन्ते।
(ii) जगत् रवि-शशि-तारा-मण्डलभूषितम् अस्ति।
(iii) लोके चक्षुषः दानं दुष्करम् अस्ति।
(iv) आयुषः एक क्षण स्वर्णकोटिकैः न लभ्यते।
(v) हंसः वर्षतौ तु मानसं पलायते।
उत्तर:
(i) केन
(ii) कुत्र
(iii) कीदृशम्
(iv) कै:
(v) कदा

प्रश्न 16.
अधोलिखितयोः श्लोकयोः अन्वयम् उचितैः पदैः पूरयित्वा पुनर्लिखत- (4 × ½ = 2)

कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहृदम्।
कुराजान्तानि राष्ट्राणि कुकर्मान्तं यशनृणाम्॥

अन्वयः हर्म्याणि (i) _______________ (भवन्ति), सौहृदम् च (ii) _______________ (भवति) (iii) _______________ कुराजान्तानि (भवन्ति) नृणाम् (iv) _______________, (v) _______________ कुकर्मान्तम् भवति।

मञ्जूषा – कुवाक्यान्तम्, यशः, राष्ट्राणि, कलहान्तानि
उत्तर:
अन्वयः – हर्म्याणि (i) कलहान्तानि (भवन्ति), सौहृदम् च (ii) कुवाक्यान्तम् (भवति) (iii) राष्ट्राणि कुराजान्तानि (भवन्ति) नॄणाम् (iv) यश: (च) कुकर्मान्तम् भवति।

अथवा

मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत- (4 × ½ = 2)

चञ्चलं हि मनः कृष्णः प्रमाथि बलवद् ढम्।
तस्याहं निग्रहं मन्ये’ वायोरिव सुदुष्करम्॥

भावार्थ: – अर्जुनः श्रीकृष्णं प्रति वदतिमनः नाम अत्यन्तचपलम् (i) _______________ रं च भवति। तदेव प्रमाथि, यत् साधकस्य ध्येयमार्गात् विचलयति। तदेव (ii) _______________, दृढं च, येन तस्य निग्रहः अतिशयेन कठिनः भवति । अहं मन्ये यत् तस्य (iii) _______________ न केवलं दुर्लभः, किन्तु वायो: निग्रहवत् अतीव (iv) _______________ । यथा वातस्य प्रवाहं न कश्चिद् रोद्धुं शक्नोति तथा मनसः चञ्चलतां निग्रहीतुं महती साधना अपेक्ष्यते।

मञ्जूषा – दुष्करः, निग्रहः, बलवत्तरं, अस्थिरं
उत्तर:
भावार्थ: – अर्जुन: श्रीकृष्णं प्रति वदति – मनः नाम अत्यन्तचपलम्, (i) अस्थिरं च भवति। तदेव प्रमाथि यत् साधकस्य ध्येयमार्गात् विचलयति। तदेव (ii) बलवत्तरं दृढं च, येन तस्य निग्रहः अतिशयेन कठिनः भवति। अहं मन्ये यत् तस्य (iii) निग्रहः न केवलं दुर्लभ, किन्तु वायो: निग्रहवत् अतीव (iv) दुष्करः। यथा वातस्य प्रवाहं न कश्चिद् रोद्धुं शक्नोति, तथा मनसः चञ्चलतां निग्रहीतुं महती साधना अपेक्ष्यते।

प्रश्न 17.
रेखाङिङ्कतपदानां प्रसङ्गानुसारं शुद्धम् अर्थं लिखत। (4 × 1 = 4)
(i) सपदिः उपायः क्रियताम्।
(A) एकपदेन
(B) पादेन सह
(C) शनै:
(D) झटिति
उत्तर:
(D) झटिति

(ii) शरीरविमोक्षणात् प्राक् यः कामं क्रोधं च त्यजति।
(A) पश्चात्
(B) कृते
(C) सङ्गे
(D) पूर्वम्
उत्तर:
(D) पूर्वम्

(iii) क्रोधात् सम्मोहः भवति।
(A) उद्विग्नता
(B) मूर्खता
(C) अशुद्धिः
(D) आश्चर्यम्
उत्तर:
(A) उद्विग्नता

(iv) अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते।
(A) भीमः
(B) अर्जुन:
(C) नकुल:
(D) सहदेवः
उत्तर:
(B) अर्जुन:

CBSE Sample Papers for Class 10 Sanskrit Communicative Set 10 with Solutions

प्रश्न 18.
अधोलिखित कथां रिक्तस्थानानि पूरयित्वा पुनः लिखत- (8 × ½ = 4)
कर्मपुरे नाम नगरे (i) _______________ नामकः कुमारः आसीत्। बाल्ये एव सः विद्यायाम् (ii) _______________ बिभ्रत्, दुष्टबुद्धिनाम्ना चौरसखेना सह चौर्यकर्मणि प्रवृत्तः। एकदा तौ मिलित्वा कस्यचित् श्रेष्ठिनः गृहे धनहरणाय ग्रामान्तरं गच्छन्तौ आसताम्। मार्गे (iii) _______________ विषमं पन्थानं प्राप्तवन्तौ। तत्र बालकाः क्रीडन्तः दृश्यन्ते स्म। ते तौ उवाच- “भो भो बालकाः! अत्र गर्तपूर्णे विषमे मार्गे कथं (iv) _______________ ? यदि कश्चित् पतेत् तर्हि सः विकलाङ्गः भूत्वा (v) _______________ यापयेत्।” तदा तेषु कश्चित् उद्दण्डः बालकः प्रत्यवदत्- “यदि भवन्तौ एवमाह तर्हि भवन्तौ किं कारणेन (vi) _______________ त्यक्त्वा अनेन कुपथेन गन्तुं प्रवृत्तौ? किं एषः श्रेयः?” एतेन वचनेन प्रच्छन्नभाग्यः गहनचिन्तायाम् मग्नः। तस्य अन्तःकरणे (vii) _______________ जातम्- “अहो! कुमार्गे स्थितस्य मे भवितव्यं क्लेशपरम्परायुक्तम्। एष (viii) _______________ मम चक्षुषी गुरुवाक्यवत् उद्घाटयति।”

मञ्जूषा – गर्तसङ्कुलं, सुपथं, दुःखमयजीवनं, जागरणं, अरुचिं, क्रीडथ, बालकवचनं, प्रच्छन्नभाग्यः
उत्तर:
कर्मपुरे नाम नगरे (i) प्रच्छन्नभाग्य नामकः कुमारः आसीत्। बाल्ये एव सः विद्यायाम् (ii) अरुचिं बिभ्रत्, दुष्टबुद्धिनाम्ना चौरसखीभ्यां सह चौर्यकर्मणि प्रवृत्तः। एकदा तौ मिलित्वा कस्यचित् श्रेष्ठिनः गृहे धनहरणाय ग्रामान्तरं गच्छन्तौ आस्ताम्। मार्गे (iii) गर्तसङ्कुलं विषमं पन्थानं प्राप्तवन्तौ। तत्र बालकाः क्रीडन्तः दृश्यन्ते स्म। ते तौ उवाच- “भो भो बालकाः! अत्र गर्तपूर्णे विषमे मार्गे कथं (iv) क्रीडथ? यदि कश्चित् पतेत् तर्हि सः विकलाङ्गः भूत्वा (v) दुःखमयजीवनं यापयेत्।” तदा तेषु कश्चित् उद्दण्डः बालकः प्रत्यवदत्- “यदि भवन्तौ एवमाह तर्हि भवन्तौ किं कारणेन (vi) सुपथं त्यक्त्वा अनेन कुपथेन गन्तुं प्रवृत्तौ? किं एषः श्रेयः?” एतेन वचनेन प्रच्छन्नभाग्यः गहनचिन्तायाम् मग्नः। तस्य अन्तःकरणे (vii) जागरणं जातम्- “अहो! कुमार्गे स्थितस्य मे भवितव्यं क्लेशपरम्परायुक्तम्। एष (viii) बालकवचनं मम चक्षुषी गुरुवाक्यवत् उद्घाटयति।”

The post CBSE Sample Papers for Class 10 Sanskrit Communicative Set 10 with Solutions appeared first on Learn CBSE.



📚 NCsolve - Your Global Education Partner 🌍

Empowering Students with AI-Driven Learning Solutions

Welcome to NCsolve — your trusted educational platform designed to support students worldwide. Whether you're preparing for Class 10, Class 11, or Class 12, NCsolve offers a wide range of learning resources powered by AI Education.

Our platform is committed to providing detailed solutions, effective study techniques, and reliable content to help you achieve academic success. With our AI-driven tools, you can now access personalized study guides, practice tests, and interactive learning experiences from anywhere in the world.

🔎 Why Choose NCsolve?

At NCsolve, we believe in smart learning. Our platform offers:

  • ✅ AI-powered solutions for faster and accurate learning.
  • ✅ Step-by-step NCERT Solutions for all subjects.
  • ✅ Access to Sample Papers and Previous Year Questions.
  • ✅ Detailed explanations to strengthen your concepts.
  • ✅ Regular updates on exams, syllabus changes, and study tips.
  • ✅ Support for students worldwide with multi-language content.

🌐 Explore Our Websites:

🔹 ncsolve.blogspot.com
🔹 ncsolve-global.blogspot.com
🔹 edu-ai.blogspot.com

📲 Connect With Us:

👍 Facebook: NCsolve
📧 Email: ncsolve@yopmail.com

#NCsolve #EducationForAll #AIeducation #WorldWideLearning #Class10 #Class11 #Class12 #BoardExams #StudySmart #CBSE #ICSE #SamplePapers #NCERTSolutions #ExamTips #SuccessWithNCsolve #GlobalEducation

Post a Comment

0Comments

😇 WHAT'S YOUR DOUBT DEAR ☕️

🌎 YOU'RE BEST 🏆

Post a Comment (0)