Students rely on Class 9 Sanskrit Solutions and Class 9th Sanskrit Sharada Chapter 5 Question Answer एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी NCERT Solutions to clarify their doubts after class.
Sanskrit Class 9 Chapter 5 Question Answer एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी
Class 9 Sanskrit Ch 5 Question Answer NCERT Solutions एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी
एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी प्रश्न उत्तर कक्षा 9
अभ्यासाद् जायते सिद्धिः
१. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
(क) कृतकबुद्धिः का अस्ति ?
(ख) अध्यापकः कृतकबुद्धेः कानि उदाहरणानि उक्तवान् ?
(ग) यन्त्राणि कथं शिक्ष्यन्ते ?
(घ) ‘डेटासेट्’ केषां पाठशाला अस्ति?
(ङ) कृतकबुद्धिः कुत्र प्रयुज्यते ?
(च) शिक्षायां कृतकबुद्धेः उपयोगः कथं भवति ?
(छ) यदि अशुद्धदत्तांश: दीयते तर्हि का समस्या भवति ?
(ज) कृतकबुद्धेः दुरुपयोगेन कीदृशं भयम् अस्ति ?
(झ) ‘कृतकबुद्धि मित्रं भवेत्, न भवेत् स्वामी’ इति वाक्यस्य कः अर्थ : ?
उत्तर:
(क) मनुष्यनिर्मिता बुद्धिः या यन्त्रेषु मानवबुद्धिवत् कार्यं करोति कृतकबुद्धिः अस्ति ।
(ख) चैट -जीपीटी, सिरि, एलेक्सा, गूगल मानचित्रं, जेमिनि, मेटा-कृतकबुद्धिः, परप्लेक्सिटि च इत्यादयः अध्यापकः कृतकबुद्धेः उदाहरणानि उक्तवान्।
(ग) यन्त्राणि दत्तांशमाध्यमेन शिक्षणं करोति ।
(घ) ‘डेटासेट्’ यन्त्राणां पाठशाला अस्ति।
(ङ) कृतकबुद्धि: शिक्षाक्षेत्रे, चिकित्साक्षेत्रे, कृषिक्षेत्रे, न्यायालये, सञ्चारे, कलासड्गीतक्षेत्रे, मनोरञ्जनादिषु क्षेत्रेषु प्रयुज्यते ।
(च) दीक्षा, स्वयं सर्वेषां कृते कृतकबुद्धि:, पी. एम. ईविद्या, संशयनिवारणार्थं चैट्बौट्, भाषानुवादोपकरणानि च शिक्षाक्षेत्रे शिक्ष्यन्ते।
(छ) यदि अशुद्धदत्तांशः दीयते तर्हि कृतकबुद्धिः अपि त्रुटिं करोति ।
(ज) कृतकबुद्धेः दुरुपयोगेन महत् भयम् अस्ति। अद्यत्वे अस्य दुरुपयोगेन अनेके साइबर् – अपराधाः समाजेषु भवन्ति ।
(झ) ‘कृतकबुद्धिः मित्रं भवेत्, न भवेत् स्वामी’, अस्य वाक्यस्य अर्थं अस्ति यत् अस्य प्रयोगः विवेकपूर्णं कर्तव्यः । यथा सा मानवहिताय कार्यं करोतु ।
२. मेलनं कुरुत – तन्त्रांशानां कार्याणि विचिन्त्य यथोचितं विकल्पं चिनुत-

उत्तर:
| स्तम्भः अ | स्तम्भः ब |
| (क) चैट-जीपीटी (Chat—GPT) | ४. संवादयन्त्रम् |
| (ख) डीप्-फेक् (Deepfake) | ७. मिथ्याचित्रस्य निर्माणम् |
| (ग) शिक्षक: | १. नैतिकतायाः शिक्षां करोति |
| (घ) एलेक्सा (Alexa) | ६. गीतं गायति, दीपं प्रकाशितं करोति च |
| (ङ) डेटासेट् (Dataset) | ९. यन्त्रपाठशालायाः नाम |
| (च) दीक्षा (DIKSHA) | २. ए. आई. आधारित – शिक्षाप्रणाली |
| (छ) अपूर्वानुमेय – नियन्त्रणम् (Predictive Policing) | १०. अपराधशमनाय प्रयोगः |
| (ज) गूगल मानचित्रं (Google Maps) | ३. पथनिर्देशनं करोति |
| (झ) पूर्वग्रह: | ५. पक्षपातयुक्तं प्रशिक्षणफलम् |
| (ञ) दॅल्ल्-ई (DALL-E) | ८. चित्रोत्पादनाय ए.आई. अनुप्रयोग: |
३. अधः प्रदत्तमञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

(क) यन्त्राणां शिक्षणाय ………. नामकः दत्तांशसमूहः उपयुज्यते ।
(ख) चैट-जीपीटी, एलेक्सा, सिरि इत्यादीनि इत्यस्य उदाहरणानि सन्ति ।
(ग) यः मनुष्यवत् प्रश्नोत्तरं करोति, सः …….. इति उच्यते।
(घ) यदा पक्षपातयुक्तः दत्तांशः प्रयुज्यते तर्हि कृतकबुद्धिः अपि ……. करोति।
(ङ) ……. सदैव करुणां विवेकं च शिक्षयन्ति, कृतबुद्धिः तु तस्य सहायिका अस्ति ।
(च) कृतकबुद्धिः यन्त्राणि अभ्यासेन …….. प्राप्नुवन्ति ।
(छ) मिथ्याचित्रं, मिथ्यावाणी च यदि कृतकबुद्ध्या निर्मीयते तर्हि सः दोषः ………. इति कथ्यते।
(ज) ड्रोनस्य माध्यमेन बीज – वपनं, भूमिक्षमतापरीक्षणं च ……… भवति ।
(झ) यदा कृतकबुद्धिः विवेकहीनतया उपयुज्यते तर्हि ………. हानिं प्राप्नोति ।
उत्तर:
(क) डेटासेट्
(ख) संवादयन्त्रम्
(ग) कृतकबुद्धिः
(घ) पूर्वाग्रहः
(ङ) शिक्षकाः
(च) प्रशिक्षणम्
(छ) डीप्-फेक्
(ज) कृषिक्षेत्रे
(झ) नैतिकता
![]()
४. पाठे आगतानां शब्दानाम् आधारेण शब्दजालं प्रदत्तम् अस्ति । अत्र वामतः दक्षिणं (यथा – कृतकबुद्धि) उपरितः अधः (यथा- डेटासेट्) च उदाहरणानुसारं नूतन-पदानां रेखाङ्कनं कुरुत इति ।

उत्तर:
(i) कृतकबुद्धि:
(ii) चर्चा
(iii) गूगल
(iv) मानचित्र:
(v) आचार्यः
(vii) यन्त्राधिगमः
(viii) एलेक्सा
(ix) चैटजीपीटी
(vi) गोलदीपम्
(x) स्फूर्त
(xi) डेटासेट्
(xii) चैटबोट्
(xiii) फेक्
(xiv) सिरि
(xv) दीक्षा
(xvi) पटल
(xvii) दतांश:
(xviii) शिक्षा
५. अधोलिखितानि वाक्यानि पठित्वा शुद्धम् (✓) अशुद्धं (✗) वा चिनुत-
(क) आर्यः यशिका च विद्यालये कृतकबुद्धेः उपयोगं कुरुत । ( )
(ख) कृतकबुद्धिः केवलं विनोदानुकूलम् उपकरणम् अस्ति। ( )
(ग) अथर्वः अपि शिक्षायां कृतकबुद्धेः प्रयोगं करोति । ( )
(घ) अक्षतः चैटबोट् इत्यस्य साहाय्येन उपन्यासलेखनं करोति । ( )
(ङ) ए.आइ.डीप्-फेक् इत्यपि कश्चन दुरुपयोगः अस्ति । ( )
(च) आर्यः चित्रनिर्माणाय कृतकबुद्धेः साहाय्यं प्राप्नोति । ( )
(छ) शिक्षकः गम्भीरतया चैट्बोट् वाक्यानां मूल्याङ्कनं करोति। ( )
उत्तर:
(क) ✗
(ख) ✗
(ग) ✓
(घ) ✗
(ङ) ✓
(च) ✗
(छ) ✓
६. एतत् चित्रम् आधारीकृत्य संस्कृतभाषायां पञ्चवाक्यानि रचयत-

उत्तर:
(क) रोबोट: एकं कृत्रिमं यन्त्रम् अस्ति।
(ख) अयं मानवस्य सहायकरूपेण कार्यं करोति ।
(ग) रोबोट: संगणकस्य आदेशान् कार्याणि करोति ।
(घ) उद्योगेषु अस्य प्रयोगाः बहुधा भवन्ति।
(ङ) अद्यत्वे अस्य महत्त्वं वर्धते ।
७. अधोलिखित- वाक्येषु कर्तृपदं क्रियापदं च चिनुत-

उत्तर:
कर्तृपदम् – क्रियापदम्
(क) आर्यः – आसीत
(ख) यशिका – वर्णयति
(ग) शिक्षक: – सूचयति
(घ) अथर्वः – दत्तवान्
(ङ) वेदः – विवेचयति
![]()
८. अधोलिखितेषु वाक्येषु विशेषणं विशेष्यं च चिनुत-

उत्तर:
विशेषणम् – विशेष्यम्
(क) अतिसक्रियम् – संगणकयन्त्रम्
(ख) गम्भीरम् – गवेषणम्
(ग) सुबोधा – प्रस्तुति:
(घ) सुस्पष्टः – सन्देशः
(ङ) आधुनिक: – दृष्टिकोण:
स्वाध्यायान्मा प्रमदः
बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः ।
प्रेक्षोपलब्धिश्चित्सं वत्प्रतिपत्ज्ञप्तिचेतना ॥
धीर्धारणावती मेधा सङ्कल्पः कर्म मानसम् ।
अवधानं समाधानं प्रणिधानं तथैव च ॥ (१.५.१-२, अमरकोशः)
बुद्धिः इत्यर्थे अमरकोषे बहवः पर्यायवाचकाः शब्दाः उल्लिखिताः सन्ति। ते यथा–मनीषा, धिषणा, धी, प्रज्ञा, शेमुषी, मति, प्रेक्षा, उपलब्धिः, चित्, संविद्, प्रतिपत्, ज्ञप्तिः, चेतना, धारणावती मेधा च एते सर्वेऽपि शब्दाः स्त्रीलिङ्गे विद्यन्ते।
यस्तु क्रियावान् मनुजः स विद्वान्
अधोलिखितेषु क्षेत्रेषु कृतकबुद्ध्या युक्तानाम् उपकरणानां, तन्त्राणाम् अनुप्रयोगाणां च क्षेत्रानुसारं नामानि सङ्गृह्य लिखत ।
शिक्षाक्षेत्रे, चिकित्साक्षेत्रे, वाणिज्ये, सैन्यक्षेत्रे, कृषिक्षेत्रे, मनोरञ्जनक्षेत्रे, वास्तुकलाक्षेत्रे, विधिक्षेत्रे, सामान्यजीवनक्षेत्रे च।
Class 9th Sanskrit Chapter 5 एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी Question Answer
संस्कृत कक्षा 9 पाठ 5 एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी के प्रश्न उत्तर
पठितावबोधनम्
१. अधोलिखितान् गद्यांशान् पठित्वा प्रश्नान् उत्तरत-
1. आर्यः – यन्त्राणामपि पाठशाला अस्ति वा? (सर्वे हसन्ति)
अध्यापकः – अस्याः यन्त्रपाठशालायाः नाम “डेटासेट् ” इति ! कृतकबुद्धिः यन्त्रं दत्तांशमाध्यमेन शिक्षणं करोति ।
यशिका – किन्तु आचार्य! यदि अशुद्धदत्तांशः दीयते तर्हि कृतकबुद्धिः अपि त्रुटिं करोति ?
अध्यापकः – आम्। यदा प्रशिक्षणदत्तांशः पक्षपातयुक्तः भवति, तदा निष्कर्षाः अपि पक्षपातयुक्ताः भवन्ति। एषः दोष: ‘पूर्वग्रह:’ इति कथ्यते। कृतकबुद्धिः अद्यापि विकासपदे अस्ति । सेदानीं मानवीयपरिचर्या – विवेकेन सह त्रुटिरहितरूपेण ग्रहीतुं शक्यते ।
श्रेया – गुरुवर ! एषा बुद्धिः केषु स्थलेषु उपयुज्यते ?
अध्यापकः – श्रेये! तव प्रश्नः अतीव महत्त्वपूर्णः । शिक्षायां, चिकित्सायां, कृषिक्षेत्रे न्यायालये, सञ्चारे, वित्ते, कलासङ्गीत- क्षेत्रे मनोरञ्जनादिषु क्षेत्रेषु च कृतकबुद्धिः भूरिशः उपयुज्यते ।
प्रश्ना:-
I. एकपदेन उत्तरत-
- यन्त्रपाठशालायाः नाम किम् अस्ति ?
- कृतकबुद्धिः यन्त्रं कथं शिक्षणं करोति ?
- यदि अशुद्धदत्तांशः दीयते तर्हि कृतकबुद्धिः किं करोति?
उत्तर:
- डेटासेट्
- दत्तांशमाध्यमेन
- त्रुटिं
II. पूर्णवाक्येन उत्तरत-
- कृतकबुद्धिः केषु स्थलेषु उपयुज्यते ?
- कीदृश: दोष: ‘पूर्वग्रह: ‘ कथ्यते ?
उत्तर:
- कृतकबुद्धि: शिक्षायां चिकित्सालयेषु, कृषिक्षेत्रे, न्यायालये, सञ्चारे, वित्ते, कलासंगीतक्षेत्रे मनोरञ्जनादिषु क्षेत्रेषु उपयुज्यते ।
- यदि प्रशिक्षणदत्तांशः पक्षपातयुक्तः भवति, तदा निष्कर्षाः अपि पक्षपातयुक्ताः भवन्ति । एषः दोष: पूर्वग्रहः कथ्यते ।
III. यथानिर्देशम् उत्तरत-
(i) ‘तव प्रश्न: …..।’ अत्र ‘तव’ इति सर्वनामपदं कस्यै प्रयुक्तम् ?
(क) श्रेयायै
(ख) अध्यापकाय
(ग) श्रेया
(घ) यशिकायै
उत्तर:
(क) श्रेयायै
(ii) ‘भूरिशः’ इत्यस्य पदस्य कः अर्थः ?
(क) प्रचुर:
(ख) सह
(ग) एषा
(घ) सञ्चारे
उत्तर:
(क) प्रचुर:
(iii) ‘कृतकबुद्धिः अपि त्रुटिं करोति’ अत्र कर्तृपदं किम्?
(क) अपि
(ख) त्रुटिं
(ग) कृतकबुद्धिः
(घ) करोति
उत्तर:
(ग) कृतकबुद्धिः
![]()
2. अथर्वः – महोदय ! कृतकबुद्धिः कथं शिक्षायां साहाय्यं करोति ? किं शिक्षकस्य स्थाने कृतकबुद्धिः अस्मान् पाठयिष्यति ? एतत् कथं सम्भवति ?
अध्यापकः – दीक्षा, स्वयम्, सर्वेषां कृते कृतकबुद्धि:, पी.एम्-ईविद्या, संशयनिराकरणार्थं चैट्बोट्, भाषानुवादोपकरणानि च यत्र तत्र प्रयुज्यन्ते । एतानि कृतकबुद्ध्याधारितानि उपकरणानि सन्ति । एतेषां साहाय्येन छात्रा : शिक्षकाणाम् अनुपस्थितौ अपि स्वयम् अध्येतुं शक्नुवन्ति ।
आकाशः – हा धिक्! एतेषां कारणेन मानवशिक्षकः किं प्रयोजनरहित। भविष्यति ?
प्रश्ना:-
I. एकपदेन उत्तरत-
- केषां साहाय्येन छात्रा : शिक्षकाणाम् अनुपस्थितौ अपि स्वयम् अध्येतुं शक्नुवन्ति ?
- मानवशिक्षकः किं प्रयोजनरहितं भविष्यति इति कः कं प्रति पृच्छति?
- चैट्बोट् किमर्थं प्रयुज्यते ?
उत्तर:
- कृतकबुद्ध्याः उपकरणाणाम्।
- आकाशः अध्यापकं प्रति ।
- संशयनिराकरणार्थं ।
II. पूर्णवाक्येन उत्तरत-
- ए.आई. आधारित शिक्षाप्रणाली काः सन्ति?
- कृतकबुद्ध्याधारितानि उपकरणानि के सन्ति?
उत्तर:
- दीक्षा, स्वयं, पी. एम्. ईविद्या इत्यादयः ए.आई. आधारित – शिक्षाप्रणालीः सन्ति ।
- चैट्बोट्, भाषानुवादोपकरणानि च कृतक- बुद्ध्याधारितानि उपकरणानि सन्ति ।
III. यथानिर्देशम् उत्तरत-
(i) ‘मानवशिक्षकः किं …….. ‘?’ अस्मिन् वाक्ये कर्तृपदं किम्?
(क) प्रयोजनरहितः
(ख) एतेषां
(ग) कारणेन
(घ) मानवशिक्षकः
उत्तर:
(घ) मानवशिक्षकः
(ii) ‘अध्ययनं कर्तुम्’ इति अर्थे किं समानार्थकं पदं प्रयुक्तम्?
(क) अध्येतुम्
(ख) साहाय्येन
(ग) उपकरणानि
(घ) शक्नुवन्ति
उत्तर:
(क) अध्येतुम्
(iii) ‘संशयः’ इति पदस्य विलोमपदं किम् ?
(क) सन्देहः
(ख) निश्चयः
(ग) शंका
(घ) समाधान
उत्तर:
(ख) निश्चयः
![]()
3. अध्यापकः – न न! कृतकबुद्धिः गुरुमित्रम् अस्ति, गुरुविकल्पः नास्ति। शिक्षकाणां सान्निध्ये छात्रेषु व्यक्तित्वविकासः भवति । शिक्षकाः पुस्तकीयज्ञानेन सह छात्रेषु मानवीय- मूल्यबोधम् अपि जनयन्ति । ते अनुशासनं, परोपकारं, करुणां तथैव व्यवहारज्ञानं च शिक्षयन्ति। सदा स्मरणीयं यत् कृतकबुद्धिः उपकरणम् अस्ति, प्रेरणा तु मानवेभ्यः एव आगच्छति ।
वेद: – अहम् कस्मिंश्चित् चलच्चित्रे दृष्टवान् यत् यन्त्राणि मानवेभ्यः संसारम् अधिगृह्णन्ति इति ।
यशिका – अपि च, आचार्य! किं कृतकबुद्धिः मानवस्य स्थानं हर्तुं शक्नोति ?
अध्यापकः – एषा चिन्ता समाजे प्रगाढं जायमाना अस्ति, किन्तु अत्र बोद्धव्यं यत् कृतकबुद्धिः सहायिका अस्ति, मनुष्यस्य प्रतिस्पर्धिनी न।
आर्यः – महोदय ! किं कृतकबुद्धिः चिकित्सायाम् अपि प्रयुज्यते ?
अध्यापकः – आम्! रोबोटिक्-सर्जरी, रोग – पूर्वज्ञानं, कृतकबुद्धिः रश्मिपरीक्षणविद्या, चैट-कृतकबुद्धि:, औषधशुश्रूषा चेत्यादीनि तदाधारितानि चिकित्सोपकरणानि सन्ति ।
प्रश्ना:-
I. एकपदेन उत्तरत-
- छात्रेषु व्यक्तित्वविकासः कथं भवति?
- छात्रेषु शिक्षकाः मानवीयमूल्यबोधं केन जनयन्ति ?
- कृतकबुद्धिः मनुष्यस्य सहायिका अस्ति प्रतिस्पर्धिनी वा?
उत्तर:
- शिक्षकाणां सान्निध्ये
- पुस्तकीयविज्ञानेन
- सहायिका
II. पूर्णवाक्येन उत्तरत-
- कृतकबुद्धिः चिकित्सायां कथं प्रयुज्यते ?
- शिक्षकाः छात्रान् किं शिक्षयन्ति ?
उत्तर:
- रोबोटिक्-सर्जरी, रोग – पूर्वज्ञानं, रश्मिपरीक्षण विद्या, चैट कृतकबुद्धि:, औषधशुश्रूषा इत्यादीनि चिकित्सोपकरणानि चिकित्सायां प्रयुज्यन्ते ।
- शिक्षिकाः छात्रान् अनुशासनं, परोपकारं, करुणां व्यवहारज्ञानं च शिक्षयन्ति ।
III. यथानिर्देशम् उत्तरत-
(i) ‘आगच्छति’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) प्रेरणा
(ख) मानव
(ग) मानवेभ्यः
(घ) कृतकबुद्धिः
उत्तर:
(क) प्रेरणा
(ii) ‘प्रगाढ़’ इति पदस्य कः अर्थः ?
(क) दृढ़
(ख) चलं
(ग) विचलं
(घ) संशयं
उत्तर:
(क) दृढ़
(iii) ‘विरोधिनी’ इति पदस्य विपरीतार्थकं पदं किं प्रयुक्तम् ?
(क) सहायिका
(ख) प्रतिस्पर्धिनी
(ग) उपकरणानि
(घ) सान्निध्ये
उत्तर:
(क) सहायिका
4. अक्षतः – किं कृषि-क्षेत्रे अपि प्रयुज्यते ?
अध्यापकः – नूनं ! कृषि क्षेत्रे अपि ड्रोनमाध्यमेन बीज- वपनं, कीटनिरीक्षणं, भूमिक्षमता- चेत्यादीनां परीक्षणम् अपि यन्त्रैः भवन्ति ।
अथर्वः – गुरुदेव ! अपराधशमनाय कृतकबुद्धिः कथं साहाय्यं करोति ?
अध्यापकः – मुखपरिचयप्रणाली, पूर्वानुमेय – नियन्त्रणं चेत्यादि-योजनासु कृतकबुद्धेः प्रयोगः अस्ति ।
यशिका – किं कृतकबुद्धिः काव्यमपि रचयितुं समर्था?
अध्यापकः – अत्र भवन्तः किं चिन्तयन्ति ?
वेदः – अहं चैट-जीपीटी इत्यस्मात् एनं श्लोकं प्राप्तवान्-
प्रश्ना:-
I. एकपदेन उत्तरत-
- बीज – वपनं कथं भवति ?
- कः चैट-जीपीटी इत्यस्मात् श्लोकं प्राप्तवान्?
- ‘कृतकबुद्धिः काव्यमपि रचयितुं समर्था: ?’ इति का पृच्छति ?
उत्तर:
- ड्रोनमाध्यमेन
- वेद:
- यशिका
II. पूर्णवाक्येन उत्तरत-
- कृतकबुद्धिः कृषिक्षेत्रे कथं प्रयुज्यते ?
- अपराधशमनाय कृतकबुद्धिः कथं साहाय्यं करोति ?
उत्तर:
- कृषिक्षेत्रे ड्रोनमाध्यमेन बीज – वपनं’, कीटनिरीक्षणं, भूमिक्षमता – च इत्यादीनां परीक्षणम् अपि यन्त्रैः भवन्ति ।
- मुखपरिचयप्रणाली, पूर्वानुमेय-नियन्त्रणं च इत्यादि-योजनासु कृतकबुद्धेः प्रयोगः अपराधशमनाय साहाय्यं करोति ।
III. यथानिर्देशम् उत्तरत-
(i) ‘करोति’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) गुरुदेव!
(ख) कृतकबुद्धिः
(ग) साहाय्यं
(घ) अपराध
उत्तर:
(ख) कृतकबुद्धिः
(ii) ‘शमनाय’ इति पदस्य पर्यायपदं किम् ?
(क) निवारणाय
(ख) शान्तं
(ग) सहाय
(घ) समर्थ
उत्तर:
(क) निवारणाय
(iii) ‘प्रयोगः’ इति पदस्य विलोमपदं किम् ?
(क) अनुप्रयोगः
(ख) योगः
(ग) युक्तः
(घ) प्रयुक्तः
उत्तर:
(क) अनुप्रयोगः
![]()
5. आकाशः – गुरुवर! तत् डीप्-फेक् इति किमस्ति ?
अध्यापकः – डीप्-फेक् कृतकबुद्ध्या निर्मितं मिथ्या-चित्रं, दृश्यं, ध्वनिः वा अस्ति। मिथ्यादृश्ये यत्र मुखं वाणी च मिथ्या प्रस्तूयते—उपहासाय, अनेकदा अपराधाय चापि ।
अथर्वः – अस्य निराकरणार्थम् उपायः कः ?
अध्यापकः – अस्माकं कृतकबुद्धि-साक्षरता, , नैतिकता- पूरितं प्रशिक्षणं, सर्वकारेण नियन्त्रणम्, आत्म- नियन्त्रणं चेति विविधाः उपायाः अस्माभिः करणीयाः ।
भास्करः – अहो! “कृतकबुद्धिः मित्रं भवेत्, न भवेत् स्वामी” इति वाक्यं मम मनः स्पृशति ।
प्रश्ना:-
I. एकपदेन उत्तरत-
- ‘कृतकबुद्धिः मित्रं भवेत्, न भवेत् स्वामी’ इति वाक्यं कस्य मनः स्पृशति ?
- ‘डीप्–फेक्’ कस्य निर्माणं करोति?
- केषां निराकरणार्थम् उपायाः अस्माभिः करणीया: ?
उत्तर:
- भास्करस्य
- मिथ्याचित्रस्य
- अपराधानाम्
II. पूर्णवाक्येन उत्तरत-
- डीप्-फेक् इति किम् अस्ति ?
- अपराधस्य निराकरणार्थं के उपायाः अस्माभिः करणीया: ?
उत्तर:
- डीप्-फेक् कृतकबुद्ध्या निर्मितं मिथ्याचित्रं, दृश्यं, ध्वनिः वा अस्ति ।
- अपराधस्य निराकरणार्थं कृतकबुद्धिः साक्षरता, नैतिकतापूरितं प्रशिक्षणं, सर्वकारेण नियन्त्रणम्, आत्मनियन्त्रणं च इति विविधाः उपायाः अस्माभिः करणीयाः ।
III. यथानिर्देशम् उत्तरत-
(i) ‘उपायाः’ इति पदस्य विशेषणपदं किम् ?
(क) नियन्त्रणं
(ख) अस्माभिः
(ग) करणीयाः
(घ) विविधाः
उत्तर:
(घ) विविधाः
(ii) ‘स्पृशति’ इति क्रियापदस्य कर्त्तृपदं किम् ?
(क) वाक्यं
(ख) मम
(ग) इति
(घ) मनः
उत्तर:
(क) वाक्यं
(iii) ‘मम’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) वेदाय
(ख) भास्कराय
(ग) अध्यापकाय
(घ) भास्करः
उत्तर:
(ख) भास्कराय
२. अधोलिखितवाक्येषु स्थूलाक्षरपदानि आश्रित्य प्रश्ननिर्माणं कुरुत-
(क) कृतकबुद्धि: मानवबुद्धेः सहकरी अस्ति ।
(ख) वयं जागरूकाः नागरिकाः भवाम|
(ग) कृतकबुद्धिः मित्रं भवेत् ।
(घ) समाजे विविधाः साइबर् – अपराधाः भवन्ति।
(ङ) भयस्य कारणं यथार्थम् अस्ति।
(च) कृतकबुद्धिः सहायिका अस्ति ।
(छ) चिकित्सायाः क्षेत्रे कृतकबुद्धिः प्रयुज्यते ।
(ज) यन्त्राणि मानववत् चिन्तयन्ति ।
(झ) कृतकबुद्धि: दत्तांशमाध्यमेन शिक्षणं करोति ।
(ञ) प्रेरणा तु मानवेभ्यः आगच्छति ।
उत्तर:
(क) कृतकबुद्धिः कस्याः सहकरी अस्ति ?
(ख) वयं कीदृशाः नागरिकाः भवाम?
(ग) का मित्रं भवेत् ?
(घ) कुत्र विविधाः साइबर् – अपराधाः भवन्ति ?
(ङ) कस्य कारणं यथार्थम् अस्ति ?
(च) कृतकबुद्धिः कीदृशी अस्ति ?
(छ) कस्याः क्षेत्रे कृतकबुद्धिः प्रयुज्यते ?
(ज) यन्त्राणि कथं चिन्तयन्ति ?
(झ) कृतकबुद्धिः केन शिक्षणं करोति ?
(ञ) प्रेरणा तु केभ्यः आगच्छति ?
३. पर्यायवाचि-पदानां मेलनं कुरुत-

(क) – (ख)
(क) वाञ्छामः – शक्नुवन्ति
(ख) सहकरी – निवारणाय
(ग) तन्त्रांश: – इच्छामः
(घ) अर्हन्ति – तीव्रतया
(ङ) दत्तांशः – विचारणीयः
(च) प्रतिस्पर्धिनी – सहयोगिनी
(छ) शमनाय – संगणक-तन्त्रः
(ज) अध्येतुम् – पूर्वदत्तं ज्ञानं/ डेटा
(झ) द्रुतगत्या – प्रतियोगी
(ञ) चिन्तनीयः – अध्ययनं कर्तुम्
उत्तर:
(क) – (ख)
(क) वाञ्छामः – इच्छामः
(ख) सहकरी – सहयोगिनी
(ग) तन्त्रांश: – संगणक-तन्त्रः
(घ) अर्हन्ति – शक्नुवन्ति
(ङ) दत्तांशः – पूर्वदत्तं ज्ञानं/डेटा
(च) प्रतिस्पर्धिनी – प्रतियोगी
(छ) शमनाय – निवारणाय
(ज) अध्येतुम् – अध्ययनं कर्तुम्
(झ) द्रुतगत्या – तीव्रतया
(ञ) चिन्तनीयः – विचारणीयः
४. अधोलिखितानां पदानां विपरीतार्थक – पदानाम् उचितं मेलनं कुरुत-

(क) – (ख)
(क) सामर्थ्य – अप्रचलितम्
(ख) चर्चित – अक्षम्य
(ग) युक्तम् – निष्ठुरता
(घ) उपयोगं – अयुक्तम्
(ङ) करुणा – दुरुपयोगं
(च) समृद्धं – विपन्नं
उत्तर:
(क) – (ख)
(क) सामर्थ्य – अक्षम्य
(ख) चर्चित – अप्रचलितम्
(ग) युक्तम् – अयुक्तम्
(घ) उपयोगं – दुरुपयोगं
(ङ) करुणा – निष्ठुरता
(च) समृद्धं – विपन्नं
५. विग्रहं कृत्वा लिखत-

(क) मानवबुद्धि: …………………..
(ख) सोत्साहं ………………
(ग) मानुषजीवनं …………..
(घ) यन्त्रपाठशाला ………….
(ङ) प्रमुखप्रकाराः ………..
(च) अपराधशमनाय ……………
(छ) भूमिक्षमता ……………
(ज) कीटनिरीक्षणं …………
उत्तर:
(क) मानवस्य बुद्धि:
(ख) उत्साहेन सह
(ग) मानुषस्य जीवनं
(घ) यन्त्राणां पाठशाला
(ङ) प्रमुखाः प्रकाराः
(च) अपराधानां शमनाय
(छ) भूमेः क्षमता
(ज) कीटानां निरीक्षणं
The post Class 9 Sanskrit Chapter 5 Question Answer एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी appeared first on Learn CBSE.
📚 NCsolve - Your Global Education Partner 🌍
Empowering Students with AI-Driven Learning Solutions
Welcome to NCsolve — your trusted educational platform designed to support students worldwide. Whether you're preparing for Class 10, Class 11, or Class 12, NCsolve offers a wide range of learning resources powered by AI Education.
Our platform is committed to providing detailed solutions, effective study techniques, and reliable content to help you achieve academic success. With our AI-driven tools, you can now access personalized study guides, practice tests, and interactive learning experiences from anywhere in the world.
🔎 Why Choose NCsolve?
At NCsolve, we believe in smart learning. Our platform offers:
- ✅ AI-powered solutions for faster and accurate learning.
- ✅ Step-by-step NCERT Solutions for all subjects.
- ✅ Access to Sample Papers and Previous Year Questions.
- ✅ Detailed explanations to strengthen your concepts.
- ✅ Regular updates on exams, syllabus changes, and study tips.
- ✅ Support for students worldwide with multi-language content.
🌐 Explore Our Websites:
🔹 ncsolve.blogspot.com
🔹 ncsolve-global.blogspot.com
🔹 edu-ai.blogspot.com
📲 Connect With Us:
👍 Facebook: NCsolve
📧 Email: ncsolve@yopmail.com
😇 WHAT'S YOUR DOUBT DEAR ☕️
🌎 YOU'RE BEST 🏆