⚙️
Welcome to NCSOLVE — National Curriculum Solver of Learning Volume Environment! Explore Free NCERT Solutions, CBSE Sample Papers, and AI Tools! Empowering Education Worldwide with Advanced AI Technology! Access Cultural Insights, AI-Based Learning, and Free Hidden Books! Prepare for NEET, JEE, UPSC, and Other Competitive Exams with Exclusive Resources! Learn Smarter, Faster, and Better with NCSOLVE Today!

CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions - #NCSOLVE 📚

0

Students must start practicing the questions from CBSE Sample Papers for Class 10 Sanskrit with Solutions Set 4 are designed as per the revised syllabus.

CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions

कालावधि : होरात्रयम्
पूर्णाङ्का : 80

सामान्य निर्देश

  • अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः सन्ति
    • खण्ड: ‘क’ अपठित-अवबोधनम् – 10 अङ्काः
    • खण्ड: ‘ख’ रचनात्मकं कार्यम् – 15 अङ्काः
    • खण्ड: ‘ग’ अनुप्रयुक्त-व्याकरणम् – 25 अङ्काः
    • खण्ड: ‘घ’ पठित-अवबोधनम् – 30 अङ्काः
  • प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।
  • उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः।
  • सर्वेषां प्रश्नानां उत्तराणि संस्कृतेन लेखनीयानि।
  • प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।

खंड: ‘क’ (अपठितावबोधनम्)
(10 अङ्काः)

खंड ‘क’ में अपठितावबोधनम् अपठित गद्यांश से संबंधित एकपदेन, पूर्णवाक्येन, उपयुक्त शीर्षक व बहुविकल्पीय प्रश्न दिए गए हैं, जिनके निर्धारित अंक उनके सम्मुख अंकित हैं।

प्रश्न 1.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत। (10)
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
एकदा एकः विदेशीयः भारतम् आगतः। अत्रागत्य निवसन्तं तं विदेशीयं तस्य भारतीयं मित्रमपृच्छत् भारतभूमौ निवासेन भवतः विचारेषु किञ्चित् परिवर्तनम् किम्? विदेशीयेन उक्तम्- मूलभूतं परिवर्तनं जातम्। आस्तिकः सञ्जाता अहम् । अतीव प्रसन्नः सन् भारतीयः अवदत्- एतदेव मम भारतस्य धर्म प्राणता। परम एतादृशां परिवर्तनं कथं जातम्? सोऽवदत्- नात्र मया कोऽपि परिश्रमेण सत्येन च कार्यं कुर्वन् दृष्टः तथाऽपि सर्वे पूर्णोदरं भुञ्जन्ति अवश्यमेव कोऽपि अलौकिक शक्ति सम्पन्नः, भारतपक्षपाती, अकर्मण्य – कृपालुः। सः च ईश्वरं विहाय कोऽन्यः भवितुम् शक्नोति? भारतीयं मित्रं सलज्जः तूष्णीं च अभवत्।

I. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2 अङ्काः)
(एक पद में उत्तर दीजिए।) (केवल दो प्रश्न)
(i) विदेशीयस्य विचारेषु कीदृशं परिवर्तनम् अभवत्?
उत्तर:
मूलभूतम्

(ii) विदेशीयम् आस्तिकं दृष्ट्वा कः प्रसन्नः आसीत्?
उत्तर:
भारतीय

(iii) एकदा एक विदेशीयः कुत्र आगतः?
उत्तर:
भारतम्

II. पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) (2 × 2 = 4 अङ्काः)
(पूर्ण वाक्य में उत्तर दीजिए।) (केवल दो प्रश्न)
(i) भारतीय विदेशीय मित्रं किम् अपृच्छत्?
उत्तर:
भारतीय विदेशीयं मित्रं अपृच्छत् अत्रागत्य भारत भूमौ निवासेन भवतः विचारेषु किञ्चित् किम् परिवर्तनम्?

(ii) प्रसन्नः सन् भारतीय किम् अवदत्?
उत्तर:
प्रसन्नः सन् भारतीयः अवदत्-एतदेव मम भारतस्य धर्म प्राणता।

(iii) कः अतीव प्रसन्नः सन् अवदत्?
उत्तर:
भारतीय अतीव प्रसन्नः सन् अवदत्।

III. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। (1 अङ्काः)
(इस अनुच्छेद के लिए उपयुक्त शीर्षक संस्कृत में लिखिए।)
उत्तर:
‘एक: विदेशीयः भारतम् आगतः।’

CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions

IV. निर्देशानुसारम् उत्तरत। (1 × 3 = 3 अङ्काः)
(निर्देशानुसार उत्तर दीजिए।)
(i) ‘खादन्ति’ इति क्रियापदस्य पर्यायपदं चित्वा लिखत।
(क) शक्नोति
(ख) भुञ्जन्ति
(ग) पिबन्ति
(घ) अभवत्
उत्तर:
(ख) भुञ्जन्ति

(ii) ‘आगत:’ इत्यस्य कर्तृपदं किम्?
(क) एकदा
(ख) विदेशीयः
(ग) भारतम्
(घ) तम्
उत्तर:
(ख) विदेशीयः

(iii) ‘नास्तिक’ अस्य विपर्ययपदं किम्?
(क) साहसिकः
(ख) आस्तिक:
(ग) वैदेशिका:
(घ) धार्मिक:
उत्तर:
(ख) आस्तिक:

खंड: ‘ख’ (रचनात्मकं कार्यम्)
(15 अङ्काः)

खंड ‘ख’ रचनात्मकं-कार्य में पत्र, चित्र लेखन, अनुच्छेद वर्णन और हिंदी वाक्यों का संस्कृत में अनुवाद आदि से संबंधित प्रश्न दिए गए हैं, जिनके निर्धारित अंक उनके सम्मुख अंकित हैं।

प्रश्न 2.
(अ) राजकुमारः मिश्र भवान् इण्टरनेट बैंकिंग माध्यमेन स्वभ्रातरं प्रति दशसहस्रं रूप्यकाणि प्रेषयितुम् इच्छति अतः धनादेशं दातुं स्वक्षेत्रस्य डाकपालम् इदं पत्रं मञ्जूषायाः सहायतया लिखत। (5 अङ्काः)
(आप राजकुमार मिश्र इंटरनेट बैंकिंग के माध्यम से अपने भाई को दस हजार रूपये भेजना चाहते हैं। अतः अपने क्षेत्र के डाकपाल महोदय को को धनादेश देने के लिए लिखे गए पत्र को मंजूषा की सहायता से लिखिए।)
मञ्जूषा – दशसहस्रम् रूप्यकाणि, शुल्कस्य, प्रक्रिया, महाराष्ट्र, आभारी, धनम् डाकपाल महोदयाः, राजकुमारः मिश्र, अहमदाबादम्।
अथवा
(आ) स्वस्य यात्रा विषये मित्रं प्रति मञ्जूषायां प्रदत्त शब्दानां सहायतया एकं पत्रं लिखत।
(अपनी यात्रा के विषय में मित्र को मंजूषा में दिए गए शब्दों की सहायता से एक पत्र लिखिए।)
[मञ्जूषा – वृक्षैः भवतः, गन्तुम्, गतसप्ताहे, वीकानेरतः, वयं एव, नमस्ते।
उत्तर:
(अ) मोदीनगरम्
अहमदाबादम्
दिनाङ्कः _______________
सेवायाम्
श्रीमन्त: डाकपालमहोदयः।
मोदीनगरम्, डाकगृहम् (अहमदाबादम्)
विषयः इण्टरनेट बैंकिंग माध्यमेन धनादेशं प्रेषणाय।
महोदय,
अहम् भवतां डाकगृहमाध्यमेन महाराष्ट्र राज्यस्य निवासिनं स्वभ्रातरं प्रति इण्टरनेट बैंकिंग माध्येन दशसहस्रं रूप्यकाणि प्रेषयितुम् इच्छामि। कृपया कथयतु भवान् यत् इयं प्रक्रिया कथं भविष्यति कति च रूप्यकाणि शुल्कस्य रूपे प्रदास्यन्ते कदा च धनं तस्मै प्रदास्यति?
अहं तस्मै शीघ्रं रूप्यकाणि प्रेषयितुम् इच्छामि। कृपया शीघ्रमेव उत्तरं यच्छतु भवान्। अहं भवताम् आभारी भविष्यामि।
निवेदक:
राजकुमार मिश्र

अथवा

(आ) बीकानेरतः
दिनाङ्कः _______________
प्रिय मित्र भास्कर।
सस्नेह नमस्ते,
गतसप्ताहे अहं मित्रैः सह शैक्षिक भ्रमणाय दार्जलिङ्ग’ इति पर्वतीय स्थलं गतवान्। अस्य स्थानस्य सौन्दर्यम् अद्भुतम् एव अस्ति। विशालैः वृक्षैः सुसज्जिता इयं देवभूमि एव अस्ति। एव प्रतीयते यत् — वयम् अन्यस्मिन् एव संसारे वसामः। इमं सुरम्य प्रदेशे दृष्ट्वा इदम् असत्यम् एवं प्रतीयते यत् — पर्वताः केवलं दूरतः एव रम्याः। पर्वताः तु सदैव रम्या एव भवन्ति। अहं त्वया सह अपि एकवारं तत्र पुनः गन्तुम् इच्छामि। आशासे आवां शीघ्रं गमिष्यावः अधुना विरमामि। सर्वेभ्यः मम नमस्कारः कथनीयः।
धन्यवाद।
भवतः मित्रम्
कृष्णः

प्रश्न 3.
(अ) प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्चवाक्यानि संस्कृतेन लिखत। (1 × 5 = 5 अङ्काः)
(दिए गए चित्र को देखकर मंजूषा में दिए गए शब्दों की सहायता से पाँच वाक्य संस्कृत में लिखिए।)
CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions Q3
मञ्जूषा – यज्ञपात्रम् अग्निः बालकाः, मन्त्रोच्चारणम्, विद्यालयः, श्रद्धया आसनानि तिष्ठन्ति प्रज्वलति भवनम् पादपाः, यज्ञ कुर्वन्ति।
अथवा
(आ) अधोलिखितं विषयम् अधिकृत्य मञ्जूषाप्रदत्तशब्दानां साहाय्येन न्यूनातिन्यूनं पञ्चभिः संस्कृतेवाक्यैः एकम् अनुच्छेदं लिखत।
(निम्नलिखित विषय पर आधारित मंजूषा में दिए गए शब्दों की सहायता से कम-से-कम पाँच संस्कृत वाक्यों में एक अनुच्छेद लिखिए।)
‘अस्माकं भारतम्’ (हमारा भारत)
मञ्जूषा – प्राचीन देशः, बहुविधाः, आचाराः विचाराः, अनेकाः, भाषाः, विविधानि एकसूत्र बद्धाः, सुदृढ़ भावना, सांस्कृतिक एकता, निवसन्ति, भारतम् अस्ति मतानि, अनेके धर्माः जनाः, भेदं विहाय परस्परं प्रेमपूर्वकं सर्वत्र दृश्यते, नागरिकेषु, मनसि वयं प्रथमम् भवति।
उत्तर:
(अ) (i) चित्रे एकं भवनम् अस्ति। अत्र एकस्मिन् विद्यालये बालकाः तिष्ठन्ति।
(ii) सर्वे बालकाः श्रद्धया आसनानि तिष्ठन्ति।
(iii) तेषां मध्ये यज्ञपात्रम् अस्ति।
(iv) यज्ञ पात्रे अग्नि प्रज्वलति।
(v) आचार्य मन्त्रोच्चारणं कुर्वन्ति। भवनस्य प्राङ्गणे पादपाः अपि सन्ति।
अथवा
(i) अस्माकं भारतं प्राचीन देशः अस्ति।
(ii) भारते सर्वत्र विविधानि मतानि दृश्यन्ते।
(iii) अनेके धर्माः जनाः परस्परं प्रेमपूर्वकं निवसन्ति।
(iv) अत्र अनेकाः आचारा:- विचाराः भाषाः च सन्ति।
(v) वयम् एकसूत्रे बद्धाः अस्माकं च मनसि सुदृढ भावना भवति।

CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions

प्रश्न 4.
अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत। (1 × 5 = 5 अङ्काः)
(निम्नलिखित वाक्यों का संस्कृत भाषा में अनुवाद करके लिखिए।)
(i) राम और लक्ष्मण वन में गए।
Ram and Laxman went to the jungle.
(ii) वह गाँव जाएगा।
He will go to the village.
(iii) पिता के साथ पुत्र बाजार जाता है।
Father along with son, go to the market.
(iv) कौशल्या राम की माता है।
Koshalya is the mother of Ram.
(v) कल सोमवार था।
Yesterday was Monday.
उत्तर:
(i) राम लक्ष्मणश्च वनम् अगच्छताम्।
(ii) सः ग्रामं गमिष्यति।
(iii) पित्रा सह पुत्र आपणं गच्छति।
(iv) कौशल्या रामस्य माता अस्ति।
(v) ह्यः सोमवारः आसीत्।

खंड: ‘ग’ (अनुप्रयुक्त-व्याकरणम्)
(25 अङ्काः)

खंड ‘ग’ अनुप्रयुक्त-व्याकरणम् में संधि / संधि-विच्छेद, समास / समास विग्रह, प्रत्यय, वाच्य, काल-बोधक शब्द, अव्यय, शुद्ध / अशुद्ध वाक्य आदि से संबंधित बहुविकल्पीय प्रश्न दिए गए हैं, जिनके निर्धारित अंक प्रश्न के सामने अंकित हैं।

प्रश्न 5.
अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धि / सन्धि-विच्छेदं वा कुरुत। (1 × 4 = 4 अङ्काः)
(निम्नलिखित वाक्यों में रेखांकित पदों की संधि अथवा संधि-विच्छेद कीजिए।)
(अ) (i) मन्ये वायोः + इव सुदुष्करम्।
(ii) सूर्य: प्रातः + उदेति।
(iii) मनोहरं इदम् उद्यानम्।
(iv) जगत् + ईश्वरः प्राणिनाः रक्षकोऽस्ति।
अथवा
(आ) (i) सकलं + जगद् ध्वस्तं भविष्यति।
(ii) पश्चाद् अन्यो द्वितीयः कश्चिल्लक्ष्यते।
(iii) निर्धन जनः भूरिपरिश्रम्य वित्तम् + उपार्जितवान्।
(iv) एतत् राजासनं न युक्तमध्यासितुम्।
उत्तर:
(अ) (i) वायोरिव
(ii) प्रातरुदेति
(iii) मन: + हरं
(iv) जगदीश्वरः
अथवा
(आ) (i) सकलञ्जगद्
(ii) कश्चित् + लक्ष्यते
(iii) वित्तमुपार्जितवान्
(iv) राजा + आसनं

प्रश्न 6.
अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं, समास विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत। (1 × 4 = 4 अङ्काः)
(निम्नलिखित वाक्यों में रेखांकित पदों का समास अथवा समास विग्रह दिए गए विकल्पों में से चुनकर लिखिए।)
(i) त्यागसमं सुखं नास्ति।
(क) त्यागात् समम्
(ख) त्यागेन समम्
(ग) त्यागस्य समम्
(घ) त्यागैः समम्
उत्तर:
(ख) त्यागेन समम्

(ii) अहो न ज्ञानं भवत्याः।
(क) न ज्ञाने
(ख) नः ज्ञाने
(ग) अज्ञानम्
(घ) अज्ञाने
उत्तर:
(ग) अज्ञानम्

(iii) मातापितरौ पूजनीयौ।
(क) मातुः पितु च
(ख) मातरौ पितरौ च
(ग) माता च पिता च
(घ) मात्रोः पित्रो च
उत्तर:
(ग) माता च पिता च

(iv) तत् सचित्रं पुस्तकम् अत्र आनय।
(क) चित्रस्य समीपे
(ख) चित्रस्य पश्चातः
(ग) चित्रेण सहितम्
(घ) चित्रस्य अभावः
उत्तर:
(ग) चित्रेण सहितम्

प्रश्न 7.
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत। (1 × 4 = 4 अङ्काः)
(निम्नलिखित वाक्यों में रेखांकित पदों के प्रकृति-प्रत्ययों को जोड़कर अथवा अलग करके उचित उत्तर विकल्पों में से उचित उत्तर चुनकर लिखिए।)
(i) भ्रष्टाचारेण अस्माकं समाज + ठक् पतनं भवति।
(कं) सामाजिकम्
(ख) सामाजिक:
(ग) सामाजिक
(घ) समाजिकी
उत्तर:
(क) सामाजिकम्

(ii) बलवती हि आशा।
(क) बली + मतुप्
(ख) बल + मतुप्
(ग) बल + णिनि
(घ) बल + वत्
उत्तर:
(ख) बल + मतुप्

(iii) भवनस्य सुन्दर + तल् दर्शनीया अस्ति।
(क) सुन्दरता
(ख) सुन्दरतम्
(ग) सुन्दरतल्
(घ) सुन्दरत्
उत्तर:
(क) सुन्दरता

(iv) एषा चतुरा बालिका अस्ति।
(क) चतुरता + टॉप्
(ख) चतुरम् + टाप्
(ग) चतुर् + टाप्
(घ) चतुः + टाप्
उत्तर:
(ग) चतुर् + टाप्

प्रश्न 8.
वाच्यानुसारम् उचितपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत। (1 × 3 = 3 अङ्काः)
(वाच्य के अनुसार उचित पद से रिक्त स्थानों की पूर्ति करके निम्नलिखित संवाद को पुनः लिखिए।)
(i) कविता सुदेश किम् त्वं _______________ (चित्र) पश्यसि?
(क) चित्र
(ख) चित्र
(ग) चित्रे
(घ) चित्रस्य
उत्तर:
(ख) चित्रं

(ii) सुदेश: आम कविते! मया चित्रं _______________ (दृश)।
(क) दृश्यते
(ख) दृश्यत्ते
(ग) दृश्यसे
(घ) दृश्ये
उत्तर:
(क) दृश्यते

(iii) कविता अस्मिन् चित्रे एषः बालकः किं _______________ (कृ) ?
(क) क्रियते
(ख) करोषि
(ग) कुर्वन्ति
(घ) करोति
उत्तर:
(घ) करोति

CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions

प्रश्न 9.
कालबोधकशब्दैः अधोलिखितं दिनचर्यां पूरयत। (1 × 4 = 4 अङ्काः)
(कालबोधक शब्दों से निम्नलिखित दिनचर्या को पूरा कीजिए।)
(i) रामू (4:45) _______________ वादने पशुभ्यः घासं ददाति।
(ii) स: (5:15) _______________ वादने गां दोग्धि।
(iii) स: (6:00) _______________ वादने क्षेत्रं गच्छति।
(iv) स (6:30) _______________ वादने हलकार्य करोति।
उत्तर:
(i) पादोनपञ्च
(ii) सपादपञ्च
(iii) षड्
(iv) सार्धषड्

प्रश्न 10.
मञ्जूषायां प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत। (1 × 3 = 3 अङ्काः)
(मंजूषा में दिए गए उचित अव्यय पदों से निम्नलिखित वाक्यों के रिक्त स्थानों की पूर्ति कीजिए।)
मञ्जूषा – अपि इदानीम् अधुना।
(i) ते _______________ एव अत्रागमिष्यन्ति।
(ii) त्वम् _______________ पठ।
(iii) छात्रा: _______________ किं करिष्यन्ति?
उत्तर:
(i) अधुना
(ii) अपि
(iii) इदानीम्

प्रश्न 11.
अधोलिखितवाक्येषु रेखाङ्कित अशुद्धपदाय उचितपदं चित्वा वाक्यानि पुनः लिखत। (1 × 3 = 3 अङ्काः)
(निम्नलिखित वाक्यों में रेखांकित अशुद्ध पद के लिए उचित पद चुनकर वाक्यों को पुन: लिखिए।)
(i) सः बालकं पश्यसि।
(क) त्वम्
(ख) सा
(ग) यूयम्
(घ) अहम्
उत्तर:
(क) त्वम्

(ii) बालकः विद्यालयं गच्छतः।
(क) बालकम्
(ख) बालकौ
(ग) बालकाः
(घ) बालिकाः
उत्तर:
(ख) बालकौ

(iii) रामः हसामि।
(क) अहम्
(ख) त्वम्
(ग) युवाम्
(घ) कलम:
उत्तर:
(क) अहम्

खंड: ‘घ’ (पठितावबोधनम्)
(30 अङ्काः)

खंड ‘घ’ पठितावबोधनम् में पाठ्यपुस्तक से गद्यांश, पद्यांश व नाट्यांश पर आधारित एकपदेन, पूर्णवाक्येन, निर्देशानुसारम् प्रश्न, प्रश्ननिर्माण, श्लोकों का अन्वय व भावार्थ, घटनाक्रम व प्रसंगानुकूल संबंधित प्रश्न दिए गए हैं, जिनके निर्धारित अंक प्रश्न के सामने अंकित हैं।

प्रश्न 12.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत। (5 अङ्काः)
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
सः भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच- “रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे” इति प्रोच्य उच्चैः अहसत्। यथाकथञ्चिद् उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ। न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ। आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यमघटत् सः शवः प्रवारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान् मान्यवर! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि “त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः। अतः निजकृत्यस्य फलं भुङ्क्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य करादंडं लप्स्यसे” इति।

I. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (\(\frac {1}{2}\) × 2 = 1 अङ्काः)
(एक पद में उत्तर दीजिए।) (केवल दो प्रश्न)
(i) अभियुक्तः कया क्रन्दति स्म?
उत्तर:
भारवेदनया

(ii) कः उच्चैः अहसत्?
उत्तर:
आरक्षी

(iii) उभौ शवमानीय कुत्र स्थापितवन्तौ?
उत्तर:
एकस्मिन् चत्वरे

II. पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2 अङ्काः)
(पूर्ण वाक्य में उत्तर दीजिए।) (केवल दो प्रश्न)
(i) क्रन्दनं निशम्य मुदित आरक्षी किम् उवाच?
उत्तर:
क्रन्दनं निशम्य मुदित आरक्षी उवाच- “रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्ष्व।”

(ii) केन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ?
उत्तर:
न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ।

(iii) यदा आरक्षिणि निजपक्षं प्रस्तुतवति तदा किम् आश्चर्यमघटत?
उत्तर:
यदा आरक्षिणि निजपक्षं प्रस्तुतवति तदा आश्चर्यमघटत् यत्- सः शवः प्रवारमपसार्य न्यायाधीशम् आरक्षिणा उक्तं सर्व वृत्तान्तम् अकथयत्।

III. निर्देशानुसारम् उत्तरत। (1 × 2 = 2 अङ्काः)
(निर्देशानुसार उत्तर दीजिए।)
(अ) (i) ‘चोरितायाः मञ्जूषाया:’ इत्यनयोः पदयोः विशेषणपदं किम्?
(ii) ‘स्वपक्षं’ इत्यस्य पदस्य पर्यायपदं गद्यांशे किम् प्रयुक्तम्?
अथवा
(आ) (i) ‘लप्स्यते’ इति क्रियापदस्य कर्तृपदं किम्?
(ii) ‘स: भारवेदनया क्रन्दति स्म वाक्ये ‘सः’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तर:
(अ) (i) चोरितायाः
(ii) निजपक्षं
अथवा
(आ) (i) त्वं
(ii) अतिथि:

CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions

प्रश्न 13.
अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत। (5 अङ्काः)
(निम्नलिखित पद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)

उदीरितोऽर्थः पशुनापि गृह्यते,
हयाश्च नागाश्च वहन्ति बोधिताः।
अनुक्तमप्यूहति पण्डितो जनः,
परेङ्गिताज्ञानफला हि बुद्धयः।।

I. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (\(\frac {1}{2}\) × 2 = 1 अङ्कः)
(एक पद में उत्तर दीजिए।) (केवल दो प्रश्न)
(i) उदीरितोऽर्थः केन गृह्यते?
उत्तर:
पशुना

(ii) कः अनुक्तमप्यूहति?
उत्तर:
पण्डित जन:

(iii) परेङ्गिताज्ञानफला के?
उत्तर:
बुद्धयः

II. पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2 अङ्काः)
(पूर्ण वाक्य में उत्तर दीजिए।) (केवल दो प्रश्न)
(i) हयाश्च नागाश्च किं कुर्वन्ति?
उत्तर:
हयाश्च नागाश्च वहन्ति बोधिताः।

(ii) बुद्धयः कीदृश:?
उत्तर:
बुद्धयः हि परेङ्गितज्ञानफला।

(iii) क: पशुनापि गृह्यते?
उत्तर:
उदिरितोऽर्थः पशुनापि गृह्यते।

III. निर्देशानुसारम् उत्तरत। (1 × 2 = 2 अङ्काः)
(निर्देशानुसार उत्तर दीजिए।)
(अ) (i) ‘मूढजन’ अस्य पदस्य विलोमपदं श्लोके किम्?
(ii) ‘गजा:’ इति पदस्य कृते किं पर्यायपदं श्लोके प्रयुक्तम्?
अथवा
(आ) (i) ‘वहन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(ii) ‘नागाश्च’ पदस्य सन्धि-विच्छेद भविष्यति?
उत्तर:
(अ) (i) पण्डितः जनः
(ii) नागा:
अथवा
(आ) (i) हयाश्च नागाश्च
(ii) नाग: + च

प्रश्न 14.
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत। (5 अङ्काः)
(निम्नलिखित नाट्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
(नेपथ्य) इयती वेला सञ्जाता रामायणगानस्य नियोगः किमर्थं न विधीयते?
उभौः राजन्! उपाध्यायदूतोऽस्मान् त्वरयति।
रामः सम्माननीय एव मुनिनियोगः। तथाहि भवन्तौ गायन्तौ कविरपि पुराणो व्रतनिधिर् गिरां सन्दर्भोऽयं प्रथममवतीणों वसुमतीम्। कथा चेयं श्लाघ्या सरसिरुहनाभस्य नियतं, पुनाति श्रोतारं रमयति च सोऽयं परिकरः। वयस्य! अपूर्वोऽयं मानवानां सरस्वत्यवतारः, तदहं सुहृज्जनसाधारणं श्रोतुमिच्छामि। सन्निधीयन्तां सभासदः प्रेष्यतामस्मदन्तिकं सौमित्रिः, अहमप्येतयोश्चिरासनपरिखेदं विहरणं कृत्वा अपनयामि। (इति निष्क्रान्ताः सर्वे)

I. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (\(\frac {1}{2}\) × 2 = 1 अङ्कः)
(एक पद में उत्तर दीजिए।) (केवल दो प्रश्न)
(i) कः त्वरयति?
उत्तर:
उपाध्यायदूतः

(ii) ‘मयापि सम्माननीय एव मुनिनियोगः’ इति कः कथयति?
उत्तर:
राम:

(iii) कस्य इयं श्लाघ्या कथा?
उत्तर:
सरसिरुहनाभस्य

II. पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2 अङ्काः)
(पूर्ण वाक्य में उत्तर दीजिए।) (केवल दो प्रश्न)
(i) उपाध्यायदूतो कान् त्वरयति?
उत्तर:
उपाध्यायदूतो अस्मान् त्वरयति।

(ii) मानवानां कस्याः अवतार: अपूर्वः?
उत्तर:
मानवानां सरस्वत्याः अवतारः अपूर्वः।

(iii) अपूर्वोऽयं मानवानां सरस्वत्यवतारः इति कः कथयति?
उत्तर:
अपूर्वोऽयं मानवानां सरस्वत्यवतारः इति रामः कथयति।

III. निर्देशानुसारम् उत्तरत। (1 × 2 = 2 अङ्काः)
(निर्देशानुसार उत्तर दीजिए।)
(अ) (i) ‘समयम्’ इति पदस्य पर्यायपदं नाट्यांशे किम्?
(ii) ‘रामायणगानस्य नियोगः’ इति पदस्य क्रियापदं नाट्यांशात् चित्वा लिखत।
अथवा
(आ) (i) ‘दूरम्’ इति पदस्य विलोमपदं नाट्यांशे किं प्रयुक्तम्?
(ii) ‘अपूर्वोऽयं मानवानां सरस्वत्यावतार:’ अस्मिन् वाक्ये विशेषण पदमस्ति?
उत्तर:
(अ) (i) वेला
(ii) विधीयते
अथवा
(आ) (i) आन्तिकम्
(ii) अपूर्व:

प्रश्न 15.
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत। (1 × 4 = 4 अङ्काः)
(रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए।)
(i) सरसः शोभा राजहंसेन भवेत्।
(ii) पतङ्गाः परितः अम्बरपथं आपेदिरे।
(iii) सरसि सङ्कोचम् अञ्चति मीन दुःखी भवति।
(iv) मानी चातक: वने वसति।
उत्तर:
(i) सरस शोभा केन भवेत्?
(ii) पतङ्गाः परितः कम् आपेदिरे?
(iii) सरसि सङ्कोचन् अञ्चति का दुःखी भवति?
(iv) मानी चातकः कुत्र वसति?

CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions

प्रश्न 16.
(अ) मञ्जूषातः समुचितपदानि चित्वा अधोलिखित श्लोकस्य अन्वयं पूरयित्वा पुनः लिखत। (1 × 4 = 4 अङ्काः)
(मंजूषा से उचित पदों को चुनकर निम्नलिखित श्लोकों के अन्वय को पूरा करके पुन: लिखिए।)

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः।।

अन्वयः काक: (i) _______________ पिक: (अपि) (ii) _______________ पिककाकयोः (iii) _______________ भेद:? (iv) _______________ प्राप्ते काकः काकः पिकः पिकः भवति।
मञ्जूषा – कः, वसन्तसमये, कृष्णः कृष्णाः।
अथवा
(आ) मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत।
(मंजूषा की सहायता से श्लोक के भावार्थ से रिक्त स्थानों को पूरा करके पुन: लिखिए।)

“कञ्जलमलिनं धूमं मुञ्चति शतशकटीयानम्।
वाष्पयानमाला सङ्घावति वितरन्ती ध्वानम्।।
यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम्।
शुचि……..।

भावार्थ: (महानगराणां) शतशकटीयानं कञ्जलमलिनं (i) _______________ मुञ्चति। वाष्पयानमाला ध्वानम् (ii) _______________ सङ्घावति। हि यानानाम् (iii) _______________ पङ्क्तयः सन्ति। (iv) _______________ कठिनम् अस्ति। शुचि पर्यावरणम्।
मञ्जूषा – वितरन्ती, धूमं संसरणं, अनन्ताः।
उत्तर:
(अ) (i) कृष्णः
(ii) कृष्णाः
(iii) कः
(iv) वसन्तसमये
अथवा
(आ) (i) धूमं
(ii) वितरन्ती
(iii) अनन्ता:
(iv) संसरणं

प्रश्न 17.
अधोलिखित कथांशं समुचित क्रमेण लिखत। (\(\frac {1}{2}\) × 8 = 4 अङ्काः)
(निम्नलिखित कथांश को उचित क्रम में लिखिए।)
(i) पश्चाद् अनयो द्वितीयः कश्चिल्लक्ष्यते।
(ii) अयमेकस्तावद्विभज्य भुज्यताम्।
(iii) कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथ:?
(iv) सा व्याघ्रमागच्छन्तं दृष्ट्वा धाष्ट्र्यत् पुत्रौ चपेटया प्रहृत्य जगाद्।
(v) मागें गहनकानने सा एकं व्याघ्रं ददर्श।
(vi) एकदा बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
(vii) तत्र राजसिंहः नाम राजपुत्रः वसति स्म।
(viii) अस्ति देउलाख्यो ग्रामः।
उत्तर:
(viii) अस्ति देउलाख्यो ग्रामः।
(vii) तत्र राजसिंहः नाम राजपुत्रः वसति स्म।
(vi) एकदा बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
(v) मार्गे गहनकानने सा एकं व्याघ्रं ददर्श।
(iv) सा व्याघ्रमागच्छन्तं दृष्ट्वा धाष्ट्र्यत् पुत्रौ चपेटया प्रहृत्य जगाद्।
(iii) कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः?
(ii) अयमेकस्तावद्विभज्य भुज्यताम्।
(i) पश्चाद् अनयो द्वितीयः कश्चिल्लक्ष्यते।

CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions

प्रश्न 18.
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत। (1 × 3 = 3 अङ्काः)
(निम्नलिखित वाक्यों में रेखांकित शब्दों के प्रसंगानुकूल उचित अर्थ चुनकर लिखिए।)
(i) दुर्बलः सुते मातुः अधिका कृपा भवति।
(क) पुत्र्याः
(ख) पुत्रे
(ग) वृषभे
(घ) खगे
उत्तर:
(ख) पुत्रे

(ii) सर्वेस्वपत्येषु जननी तुल्यवत्सला भवति।
(क) माता
(ख) जनक:
(ग) जन्मदात्री
(घ) ज्वरः
उत्तर:
(क) माता

(iii) चित्ते वाचि च समानरूपेण अवकता समत्वम् कथ्यते।
(क) गृहम्
(ख) लोक:
(ग) हितम्
(घ) वाणी
उत्तर:
(घ) वाणी

The post CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions appeared first on Learn CBSE.



📚 NCsolve - Your Global Education Partner 🌍

Empowering Students with AI-Driven Learning Solutions

Welcome to NCsolve — your trusted educational platform designed to support students worldwide. Whether you're preparing for Class 10, Class 11, or Class 12, NCsolve offers a wide range of learning resources powered by AI Education.

Our platform is committed to providing detailed solutions, effective study techniques, and reliable content to help you achieve academic success. With our AI-driven tools, you can now access personalized study guides, practice tests, and interactive learning experiences from anywhere in the world.

🔎 Why Choose NCsolve?

At NCsolve, we believe in smart learning. Our platform offers:

  • ✅ AI-powered solutions for faster and accurate learning.
  • ✅ Step-by-step NCERT Solutions for all subjects.
  • ✅ Access to Sample Papers and Previous Year Questions.
  • ✅ Detailed explanations to strengthen your concepts.
  • ✅ Regular updates on exams, syllabus changes, and study tips.
  • ✅ Support for students worldwide with multi-language content.

🌐 Explore Our Websites:

🔹 ncsolve.blogspot.com
🔹 ncsolve-global.blogspot.com
🔹 edu-ai.blogspot.com

📲 Connect With Us:

👍 Facebook: NCsolve
📧 Email: ncsolve@yopmail.com

#NCsolve #EducationForAll #AIeducation #WorldWideLearning #Class10 #Class11 #Class12 #BoardExams #StudySmart #CBSE #ICSE #SamplePapers #NCERTSolutions #ExamTips #SuccessWithNCsolve #GlobalEducation

Post a Comment

0Comments

😇 WHAT'S YOUR DOUBT DEAR ☕️

🌎 YOU'RE BEST 🏆

Post a Comment (0)