Students find these Class 8 Sanskrit MCQ Chapter 4 प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः MCQ Questions with Answers helpful for self-assessment and preparation.
प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः Class 8 MCQ Questions Sanskrit Chapter 4
बहुविकल्पीय प्रश्ना:
अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत।
(निम्नलिखित विकल्पों में से उचित उत्तर चुनकर लिखिए |)
(i) सभागारे चर्चा के कुर्वन्ति ?
(क) शिक्षकः
(ख) छात्रा:
(ग) उभौ
(घ) माता
उत्तर:
(ग) उभौ
(ii) भयङ्कर जलप्लावः कुत्र सम्भूतः?
(क) गङ्गानद्या
(ख) महानद्यां
(ग) यमुनानद्यां
(घ) कृष्णानद्यां
उत्तर:
(ख) महानद्यां
(iii) महान् समाजसेवक कः आसीत्? पाठानुसारेण उत्तर दीयताम् ।
(क) अध्यापकः
(ख) गोपबन्धुः
(ग) हिमानी
(घ) प्रफुल्लचन्द्ररायः
उत्तर:
(ख) गोपबन्धुः
(iv) कस्य प्रेरणया भारतीयस्वतन्त्रता आन्दोलने गोपबन्धुः भागं गृहीतवान्?
(क) शिक्षकस्य
(ख) छात्रस्य
(ग) महात्मागान्धेः
(घ) प्रफुल्लचन्द्रस्य
उत्तर:
(v) आमन्त्रिताः सर्वे अतिथयः हस्तपादं क्षालयित्वा कुत्र उपदिष्टवन्तः?
(क) सिंहासनेषु
(ख) पत्रेषु
(ग) वाहनेषु
(घ) आसनेषु
उत्तर:
(घ) आसनेषु
अधोलिखितान् गद्यांशान् पठित्वा प्रश्नान् उत्तरत-
(क) एकदा आचार्यहरिहरदासः सत्यवादि-वनविद्यालयस्य सर्वान् अध्यापकान् भोजनाय आमन्त्रितवान् । आमन्त्रिताः सर्वे अतिथयः हस्तपादं क्षालयित्वा आसनेषु उपविष्टवन्तः । बहूनि सुस्वादूनि व्यञ्जनानि कदलीपत्रेषु परिवेषितानि । हसन् गोपबन्धुरवदत् – अरे !
भोजनस्यातिदौर्लभ्यं जीवनाय सुखप्रदम्।
तदर्थं भोजनं कुर्याः मा शरीरे दयां कुरु ।।
एतच्छ्रुत्वा सर्वे उच्चैः हसितवन्तः। तदानीमेव बहि: कश्चन करुणध्वनिः गोपबन्धोः कर्णयोः अगुञ्जत्-
प्रश्ना:-
I. एकपदेन उत्तरत-
(क) कः अध्यापकान् भोजनाय आमन्त्रितवान्?
उत्तराणि :
हरिहरदासः
(ख) हस्तपादं के अक्षालयन् ?
उत्तराणि :
अतिथयः
(ग) अतिथयः कुत्र उपविष्टवन्तः ?
उत्तराणि :
आसनेषु
(घ) व्यञ्जनानि कुत्र परिवेषितानि ?
उत्तराणि :
कदलीपत्रेषु
II. पूर्णवाक्येन उत्तरत-
(क) क: हसन् अवदत् ?
उत्तराणि :
गोपबन्धुः हसन् अवदत्।
(ख) के उच्चैः हसितवन्त: ?
उत्तराणि :
सर्वे उच्चैः हसितवन्तः ।
(ग) कर्णयोः किम् अगुञ्जत् ?
उत्तराणि :
कर्णयोः करुणध्वनिः अगुञ्जत्।
![]()
III. यथानिर्देशम् उत्तरत-
(i) ‘गात्रे’ इत्यर्थे किं पदं प्रयुक्तम् ?
(क) कर्णयोः
(ख) लभ्यं
(ग) शरीरे
(घ) करुण
उत्तराणि :
(ग) शरीरे
(ii) ‘गोपबन्धुरवदत्’ इत्यत्र कर्तृपदं किम् ?
(क) अवदत्
(ख) गोपबन्धुः
(ग) व्यञ्जनानि
(घ) भिक्षुकः
उत्तराणि :
(ख) गोपबन्धुः
(iii) ‘सर्वान् अध्यापकान्’ इत्यत्र विशेषणपदं किम् ?
(क) गोपबन्धुः
(ख) हरिहरदास:
(ग) अध्यापकान्
(घ) सर्वान्
उत्तराणि :
(घ) सर्वान्
(ख) कारागारे निवसन् सः ‘बन्दीरआत्मकथा’, ‘कारा-कविता’, ‘धर्मपद’, ‘गो-माहात्म्य’, ‘नचिकेता- उपाख्यान’ इत्यादीनि बहुप्रेरणादायीनि पुस्तकानि ओडिआभाषया विरचितवान् । सर्वदा स्वदेशस्यैव वस्त्राणां वस्तूनां च उपयोगं कृतवान् । मरणासन्नं स्वपुत्रमपि विहाय जलप्लावपीडितान् भारतमातुः सहस्रशः पुत्रान् उद्धर्तुं गृहात् बहिः निर्गतः समाजमसेवत च। देशसेवातत्परस्य गोपबन्धुवर्यस्य प्रसिद्धं प्रेरणादायकं वचनमधुनापि जनमानसेषु राष्ट्रभक्तिं जागरयति ।
प्रश्ना:-
I. एकपदेन उत्तरत-
(क) कुत्र निवसन् गोपबन्धुः पुस्तकानि विरचितवान्?
उत्तराणि :
कारागारे
(ख) ‘नचिकेता उपाख्यानं’ इति केन विरचितम् ?
उत्तराणि :
गोपबन्धुना
(ग) स्वदेशस्य वस्त्राणां उपयोगं कः कृतवान्?
उत्तराणि :
गोपबन्धुः
(घ) किं विहाय गोपबन्धुः बहिः निर्गत: ?
उत्तराणि :
पुत्रम्
II. पूर्णवाक्येन उत्तरत-
(क) कः समाजम् असेवत?
उत्तराणि :
गोपबन्धुः समाजम् असेवत।
(ख) कः जनमानसेषु राष्ट्रभक्तिं जागरयति ?
उत्तराणि :
गोपबन्धोः वचनं जनमानसेषु राष्ट्रभक्तिं जागरयति।
(ग) गोपबन्धुः केषां वस्तूनाम् उपयोगं कृतवान्?
उत्तराणि :
गोपबन्धुः स्वदेशस्य वस्तूनाम् उपयोगं कृतवान्।
III. यथानिर्देशम् उत्तरत-
(i) ‘सः समाजम् असेवत’ इत्यत्र क्रियापदं किम् ?
(क) समाजम्
(ख) सः
(ग) असेवत
(घ) सततम्
उत्तराणि :
(ग) असेवत
(ii) ‘प्रेरणादायकं वचनम्’ इत्यत्र विशेष्य पदं किम् ?
(क) प्रेरणादायकम्
(ख) जनमानसे
(ग) वचनम्
(घ) गोपबन्धुः
उत्तराणि :
(ग) वचनम्
(iii) ‘अन्तः’ इति पदस्य विलोमपदं किम् ?
(क) कारा
(ख) विहाय
(ग) बहि:
(घ) निर्गतः
उत्तराणि :
(ग) बहि:
(ग) एतच्छ्रुत्वा सर्वे उच्चैः हसितवन्तः । तदानीमेव बहि: कश्चन करुणध्वनिः गोपबन्धोः कर्णयोः अगुञ्जत्-
” मातः, मातः ! बुभुक्षितोऽस्मि, कृपया किञ्चित् भोजनं देहि। दिनत्रयात् किमपि न भुक्तम् । भोजनं देहि मातः ! भोजनं देहि। आँ आँ …” इति क्रन्दनध्वनिं श्रुत्वैव दयाविगलितहृदयः गोपबन्धुः अश्रुपूर्णनयनोऽभवत् । किमपि अविचिन्त्य झटिति स्वस्मै परिवेषितं भोजनं हस्ते गृहीत्वा बहिरागतवान्। भिक्षुकञ्च तद्भोजितवान् ।
प्रश्ना:-
I. एकपदेन उत्तरत-
(क) कः करुणध्वनिं श्रुतवान् ?
उत्तराणि :
गोपबन्धुः
(ख) भोजनं कः अयाचत?
उत्तराणि :
गोपबन्धुः
(ग) गोपबन्धुः हस्ते किम् गृहीत्वा बहिः गतवान् ?
उत्तराणि :
भोजनं
(घ) के उच्चैः हसितवन्त: ?
उत्तराणि :
सर्वे
II. पूर्णवाक्येन उत्तरत-
(क) याचकः किम् अयाचत?
उत्तराणि :
याचक: भोजनम् अयाचत ।
(ख) गोपबन्धुः किमर्थम् अश्रुपूर्णनयनोऽभवत् ?
उत्तराणि :
भिक्षुकस्य करुणध्वनिम् श्रुत्वा गोपबन्धुः अश्रुपूर्णनयनः अभवत् ।
(ग) गोपबन्धुः स्वभोजनं कस्मै अयच्छत् ?
उत्तराणि :
गोपबन्धुः स्वभोजनं भिक्षुकाय अयच्छत् ।
III. निर्देशानुसारम् उत्तरत-
(i) ‘शीघ्रं’ इत्यर्थे किम् पदं प्रयुक्तम् ?
(क) झटिति
(ग) देहि
(ख) स्वस्मै
(घ) भुक्तम्
उत्तराणि :
(क) झटिति
(ii) ‘भोजनं’ इति पदस्य विशेषणपदं किम् ?
(क) स्वस्मै
(ख) परिवेषितं
(ग) भिक्षुकम्
(घ) हस्ते
उत्तराणि :
(ख) परिवेषितं
(iii) ‘हसितवन्त: ‘ इति क्रियापदस्य कर्तृपदम् किम् ?
(क) एतत्
(ख) सर्वे
(ग) उच्चैः
(घ) श्रुत्वा
उत्तराणि :
(ख) सर्वे
![]()
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(i) गोपबन्धुदासः महान् समाजसेवकः आसीत्।
उत्तराणि :
क: महान् समाजसेवकः आसीत्?
(ii) गोपबन्धुः दरिद्राणां सेवाम् अकरोत् ।
उत्तराणि :
गोपबन्धुः केषाम् सेवाम् अकरोत् ?
(iii) सत्यवादि-वनविद्यालये सः छात्रान् निःशुल्कम् अपाठयत्।
उत्तराणि :
सः कुत्र छात्रान् निःशुल्कम् अपाठयत् ?
(iv) कार्पासवस्त्रनिर्माणाय सः स्वयमेव सूत्रप्रस्तुतिम् अकरोत् ।
उत्तराणि :
किमर्थम् सः स्वयमेव सूत्रप्रस्तुतिम् अकरोत् ?
(v) गोपबन्धुः वर्षद्वयं कारावासम् अगच्छत्।
उत्तराणि :
गोपबन्धुः वर्षद्वयं कुत्र अगच्छत्?
(vi) गोपबन्धुः उत्कलमणिः इति उपाधिना सम्मानितः ।
उत्तराणि :
क: उत्कलमणिः इति उपाधिना सम्मानित: ?
(vii) कारावासे सः अनेकानि पुस्तकानि विरचितवान् ।
उत्तराणि :
कुत्र सः अनेकानि पुस्तकानि विरचितवान्?
(viii) गोपबन्धुः स्वदेशस्य एव वस्त्राणाम् उपयोगं कृतवान्।
उत्तराणि :
गोपबन्धुः स्वदेशस्य एव केषाम् उपयोगं कृतवान्?
(ix) मरणासन्नं पुत्रं विहाय सः समाजम् असेवत ।
उत्तराणि :
कीदृशं पुत्रं विहाय सः समाजम् असेवत ?
(x) गोपबन्धुः समाज – दिनपत्रिकायाः प्रतिष्ठाता आसीत्।
उत्तराणि :
कः समाज-दिनपत्रिकायाः प्रतिष्ठाता आसीत्?
मञ्जूषातः उचितं पदं चित्वा रिक्तस्थानानि पूरयत-
|
मञ्जूषा |
(i) गोपबन्धुः सर्वदा स्वदेशस्यैव ______ उपयोगं कृतवान्।
(ii) सः ओडिआभाषया बहुप्रेरणादायीनि ______ रचितवान् ।
(iii) देशवासिनः मम ______ कुर्वन्तु।
(iv) गोपबन्धुः सुआण्डो-ग्रामे ______ लब्धवान्।
(v) निरक्षरतादूरीकरणाय सः ______ यतते स्म।
(vi) गोपबन्धोः ______ करुणध्वनिः अगुञ्जत्।
उत्तराणि :
(i) वस्तूनाम्
(ii) पुस्तकानि
(iii) अनुसरणं
(iv) जन्म
(v) सततं
(vi) कर्णयोः
शुद्धकथनं (✓) चिह्नेन, अशुद्धकथनं (✗) चिह्नेन अङ्कयत-
(क) गोपबन्धुः महान् समाजसेवकः आसीत्।
उत्तराणि :
✓
(ख) गोपबन्धुः देशभक्तः न आसीत् ।
उत्तराणि :
✗
(ग) गोपबन्धुः अध्यापकः आसीत् ।
उत्तराणि :
✓
(घ) गोपबन्धुः छात्रान् निःशुल्कं अपाठयत् ।
उत्तराणि :
✓
(ङ) गोपबन्धुः विदेशस्य वस्त्राणाम् उपयोगं कृतवान्।
उत्तराणि :
✗
(च) सः निर्धनानां सेवां नाकरोत् ।
उत्तराणि :
✗
(छ) गोपबन्धुः दयालुः आसीत्।
उत्तराणि :
✓
![]()
क, ख स्तम्भयोः मेलनं कुरुत-
| (क) | (ख) |
| गोपबन्धुः | अपाठयत् |
| प्रेरणादायकम् | प्रेरणया |
| जन्म | समाजसेवक : |
| निःशुल्कम् | वचनम् |
| दरिद्राणाम् | लब्धवान् |
| महात्मगान्धेः | निर्धनानाम् |
उत्तराणि :
| (क) | (ख) |
| गोपबन्धुः | समाजसेवकः |
| प्रेरणादायकम् | वचनम् |
| जन्म | लब्धवान् |
| निःशुल्कम् | अपाठयत् |
| दरिद्राणाम् | निर्धनानाम् |
| महात्मगान्धेः | प्रेरणया |
घटनाक्रमेण वाक्यानि पुनः लिखत-
(क) सर्वे अतिथयः हस्तपादं क्षालयित्वा आसनेषु उपविष्टवन्तः।
(ख) भोजनं कुर्या: मा शरीरे दयां कुरु ।
(ग) आचार्यहरिहरदासः सर्वान् अध्यापकान् भोजनाय आमन्त्रितवान्।
(घ) गोपबन्धोः कर्णयोः करुणध्वनिः अगुञ्जत्।
(ङ) बहूनि सुस्वादूनि व्यञ्जनानि कदलीपत्रेषु परिवेषितानि ।
(च) गोपबन्धुः स्व परिवेषितं भोजनं हस्ते गृहीत्वा बहिः आगतवान्।
(छ) क्रन्दनध्वनिं श्रुत्वा दयाविगलितहृदयः सः अश्रुपूर्णनयनः अभवत् ।
(ज) बुभुक्षितः अस्मि, कृपया किञ्चित् भोजनं देहि ।
उत्तराणि :
(i) (ग) आचार्यहरिहरदासः सर्वान् अध्यापकान् भोजनाय आमन्त्रितवान्।
(ii) (क) सर्वे अतिथयः हस्तपादं क्षालयित्वा आसनेषु उपविष्टवन्तः ।
(iii) (ङ) बहूनि सुस्वादूनि व्यञ्जनानि कदलीपत्रेषु परिवेषितानि ।
(iv) (ख) भोजनं कुर्याः मा शरीरे दयां कुरु ।
(v) (घ) गोपबन्धोः कर्णयोः करुणध्वनिः अगुञ्जत्।
(vi) (ज) बुभुक्षितः अस्मि कृपया किञ्चित् भोजनं देहि ।
(vii) (छ) क्रन्दनध्वनिं श्रुत्वा दयाविगलितहृदयः सः अश्रुपूर्णनयनः अभवत् ।
(viii) (च) गोपबन्धुः स्व परिवेषितं भोजनं हस्ते गृहीत्वा बहिः आगतवान्।
पर्यायपदानाम् मेलनं कुरुत-
| (क) | (ख) |
| (i) अकुण्ठम् | धनं विना |
| (ii) समादृतः | अतुलनीयम् |
| (iii) नि:शुल्कम् | आग्रहपूर्वकम् |
| (iv) दौर्लभ्यम् | बन्धनगृहम् |
| (v) बुभुक्षितः | गच्छन्तु |
| (vi) प्रयान्तु | सम्मानितः |
| (vii) असीमम् | कष्टेनलभ्यम् |
| (viii) कारावासम् | क्षुधातुरः |
उत्तराणि :
| (क) | (ख) |
| (i) अकुण्ठम् | आग्रहपूर्वकम् |
| (ii) समादृतः | सम्मानित: |
| (iii) नि:शुल्कम् | धनं विना |
| (iv) दौर्लभ्यम् | कष्टेन लभ्यम् |
| (v) बुभुक्षितः | क्षुधातुरः |
| (vi) प्रयान्तु | गच्छन्तु |
| (vii) असीमम् | अतुलनीयम् |
| (viii) कारावासम् | बन्धनगृहम् |
रिक्तस्थानं पूरयत
प्रदत्तविकल्पेभ्यः शुद्धम् उत्तरं चित्वा लिखत
(दिए गए विकल्पों में से शुद्ध उत्तरं चुनकर लिखिए)
- केचित् अस्वस्थाः चिकित्साल ………. सह युध्यन्ते । (मृत्युना/मृत्युः)
- भोजनस्यातिदौर्लभ्यं ……… सुखप्रदम्। (जीवनेन / जीवनाय)
- स्वस्मै परिवेषितं भोजनं हस्ते ………. बहिरागतवान्। (गृहीतः/गृहीत्वा)
- देशवासिनः मम अनुसरणं ………..। (कुर्वति/कुर्वन्तु)
- स्वदेशभूमौ …….. लीयतां तनुः । (मम/मयि)
उत्तर:
- मृत्युना
- जीवनाय
- गृहीत्वा
- कुर्वन्तु
- मम
![]()
सत्यं / असत्यं
प्रदत्तविकल्पेभ्यः सत्यं / असत्यं उत्तरं चित्वा लिखत।
(दिए गए विकल्पों में से सत्य / असत्य उत्तर चुनकर लिखिए |)
- बहवः गृहपालिता पश्वोऽपि नदीस्रोतसा प्रवाहिताः मृताश्च । (सत्यं/असत्यं)
- दिनत्रयात् किमपि न भुक्तम्। (सत्यं/असत्यं)
- कारागारे निवसन् प्रफुल्लचन्द्रः बन्दीर आत्मकथा विरचितवान् । (सत्यं/असत्यं)
- ‘समाज:’ इति दिनपत्रिका शताधिकवर्षेभ्यः अधुनापि मासिकं प्रकाश्यते। (सत्यं/असत्यं)
- ते सर्वे गर्ताः मम अस्थिभिः मासैश्च परिपूर्णाः भवन्तु। (सत्यं/असत्यं)
उत्तर:
- सत्यं
- सत्यं
- असत्यं
- असत्यं
- सत्यं
मेलनं कुर्वन्तु
अधोलिखितानां कथनानां तेषां वक्तेभ्यः योजयत्।
(निम्नलिखित कथनों को उनके वक्ता से मिलाइए।)

उत्तर:
(क) (iv) शिक्षकः
(ख) (i) छात्र:
(ग) (v) भिक्षुकः
(घ) (iii) प्रफुल्लचन्द्रराय
(ङ) (ii) गोपबन्धुः
प्रश्ननिर्माणं
अधोलिखितानां रेखाङ्कितपदानां आधृत्य प्रश्ननिर्माणं कुरुत।
(निम्नलिखित रेखांकित पदों के आधार पर प्रश्न – निर्माण कीजिए ।)
- एषः अस्ति दीनबन्धु गोपबन्धुः ।
- सर्वान् अध्यापकान् भोजनाय आमन्त्रितवान्।
- दयाविगलितहृदयः गोपबन्धुः अस्ति ।
- सः द्वयं वर्षं यावत् कारावासं प्राप्तवान् ।
- स्वदेशस्य भूमिभागे मम शरीरं विलीनं भवतु ।
उत्तर:
- कः
- किमर्थम्
- कीदृश:
- कति
- कस्य
The post Class 8 Sanskrit Chapter 4 MCQ प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः appeared first on Learn CBSE.
📚 NCsolve - Your Global Education Partner 🌍
Empowering Students with AI-Driven Learning Solutions
Welcome to NCsolve — your trusted educational platform designed to support students worldwide. Whether you're preparing for Class 10, Class 11, or Class 12, NCsolve offers a wide range of learning resources powered by AI Education.
Our platform is committed to providing detailed solutions, effective study techniques, and reliable content to help you achieve academic success. With our AI-driven tools, you can now access personalized study guides, practice tests, and interactive learning experiences from anywhere in the world.
🔎 Why Choose NCsolve?
At NCsolve, we believe in smart learning. Our platform offers:
- ✅ AI-powered solutions for faster and accurate learning.
- ✅ Step-by-step NCERT Solutions for all subjects.
- ✅ Access to Sample Papers and Previous Year Questions.
- ✅ Detailed explanations to strengthen your concepts.
- ✅ Regular updates on exams, syllabus changes, and study tips.
- ✅ Support for students worldwide with multi-language content.
🌐 Explore Our Websites:
🔹 ncsolve.blogspot.com
🔹 ncsolve-global.blogspot.com
🔹 edu-ai.blogspot.com
📲 Connect With Us:
👍 Facebook: NCsolve
📧 Email: ncsolve@yopmail.com
😇 WHAT'S YOUR DOUBT DEAR ☕️
🌎 YOU'RE BEST 🏆