Students find these Class 8 Sanskrit MCQ Chapter 9 कोऽरुक्? कोऽरुक्? कोऽरुक्? MCQ Questions with Answers helpful for self-assessment and preparation.
कोऽरुक्? कोऽरुक्? कोऽरुक्? Class 8 MCQ Questions Sanskrit Chapter 9
बहुविकल्पीय प्रश्नाः
अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत।
(निम्नलिखित विकल्पों में से उचित उत्तर चुनकर लिखिए |)
(i) “अत्युष्णं भोजनं हितकरं न भवति” इति कस्य उपदेश: ?
(क) वेदस्य
(ख) आयुर्वेदस्य
(ग) पुराणस्य
(घ) रामायणस्य
उत्तर:
(ख) आयुर्वेदस्य
(ii) आयुर्वेदे बहवः काः सन्ति?
(क) व्याकरण नियमाः
(ख) आहार नियमाः
(ग) व्यायाम नियमाः
(घ) न कोऽपि
उत्तर:
(ख) आहार नियमाः
(iii) पुष्पतरुम् आरुह्य कया गिरा ‘कोऽरुक्, कोऽरुक्, कोऽरुक्’ इति शब्दम् अकरोत्?
(क) मधुरया
(ख) कठोरया
(ग) उभौ
(घ) समीचीनम्
उत्तर:
(क) मधुरया
(iv) कस्य वैद्यस्य अन्वेषणाय भारतवर्षे सर्वत्र परिभ्रमन् अत्र समागतः ?
(क) अधमस्य
(ख) उत्तमस्य
(ग) निम्नस्य
(घ) सर्वे
उत्तर:
(ख) उत्तमस्य
(v) कस्य महर्षे नाम भवन्तः श्रुतवन्तः स्युः ?
(क) शुकस्य
(ख) वाग्भटस्य
(ग) चरकस्य
(घ) वाग्भट्स्य:
उत्तर:
(ग) चरकस्य
![]()
अधोलिखितान् गद्यांशान् पठित्वा प्रश्नान् उत्तरत-
(क) ‘भारतवर्षे वैद्या: विभिन्नानां व्याधीनां शमनं कथं कुर्वन्ति’ इति ज्ञातुं पुरा भगवान् धन्वन्तरि मनोहरं शुकरूपं धृत्या प्रतिग्रामम् अभ्रमत्। भ्रमणकाले सः बहूनां प्रख्यातवैद्यानां भवनपार्श्वस्थे वृक्षे उपविश्य ‘कोऽरुक्’ ‘कोऽरुक्’ ‘कोऽरुक्’ इति ध्वनिम् अकरोत्। किन्तु खगस्य ‘कोऽरुक्’ इति शब्दं प्रति कस्यापि अवधानं नासीत्।
अन्ते सः वैद्यस्य वाग्भटस्य कुटीरसमीपं गतवान्। तत्र विशाले प्राङ्गणे स्थितं पुष्पतरुम् आरुह्य मधुरया गिरा ‘कोऽरुक्’ ‘कोऽरुक्’ ‘कोऽरुक्’ इति शब्दम् अकरोत् । मधुरां वाणीं श्रुत्वा चिकित्सानिरतः वाग्भटः प्राङ्गणम् आगत्य सर्वासु दिक्षु अपश्यत् । क्षणात् वाग्भटः मनोहरं तं शुकम् अपश्यत्।
प्रश्ना:-
I. एकपदेन उत्तरत-
(क) कः शुकरूपं धृतवान्?
उत्तराणि :
धन्वन्तरिः
(ख) धन्वन्तरिः कुत्र अभ्रमत् ?
उत्तराणि :
प्रतिग्रामम्
(ग) धन्वन्तरिः कुत्र उपविश्य ‘कोऽरुक्’ इति वदति स्म?
उत्तराणि :
वृक्षे
(घ) धन्वन्तरिः कस्य कुटीरसमीपम् अगच्छत्?
उत्तराणि :
वाग्भटस्य
II. पूर्णवाक्येन उत्तरत-
(क) मधुरां वाणीं श्रुत्वा कः प्रांगणम् आगत: ?
उत्तराणि :
मधुरां वाणीं श्रुत्वा वाग्भटः प्रांगणम् आगतः ।
(ख) वाग्भटः किम् अपश्यत् ?
उत्तराणि :
वाग्भटः मनोहरं शुकम् अपश्यत्।
(ग) शुकः कम् आरुह्य ‘कोऽरुक्’ इत्यवदत्?
उत्तराणि :
शुकः तरुपुष्पम् आरुह्य ‘कोऽरुक्’ इत्यवदत्।
III. यथानिर्देशम् उत्तरत-
(i) ‘व्याधीनां शमनं कुर्वन्ति’ – इत्यत्र क्रियापदं किम् ?
(क) व्याधीनाम्
(ख) कुर्वन्ति
(ग) शमनम्
(घ) कथम्
उत्तराणि :
(ख) कुर्वन्ति
(ii) ‘शुकरूपं’ इति पदस्य विशेषणपदं किम् ?
(क) मनोहर
(ख) मनोहरं
(ग) शुक
(घ) रूपं
उत्तराणि :
(ख) मनोहरं
(iii) ‘तरो:’ इति पदस्य समानार्थक पदं किम्?
(क) वृक्षं
(ख) दिक्षु
(ग) तरुं
(घ) वृक्षे
उत्तराणि :
(घ) वृक्षे
![]()
(ख) सार्थकं मानुषध्वनिं कुर्वन्तं शुकं दृष्ट्वा विस्मितः वाग्भटः चिन्तितवान्–‘”नायं लौकिकः खगः। एषः निश्चयेन कश्चन देवविशेषः अस्ति। सः झटिति तस्मै विहगाय मधुराणि फलानि समर्पितवान् परन्तु सः खगः फलानि न गृहीत्वा पुनरपि तथैव ‘कोऽरुक्’ ‘कोऽरुक्’ ‘कोऽरुक्’ इति प्रश्नस्वरेण शब्दमकरोत्। अथ वैद्यः वाग्भटः अचिन्तयत् यत् यावत् खगः स्वप्रश्नानाम् उत्तराणि न प्राप्नोति तावत् अयं भोजनं न वाञ्छति इति। ततः सः अचिरादेव सूत्ररूपाणि त्रीणि उत्तराणि प्राददात्–‘हितभुक्’ ‘मितभुक्’ ‘ऋतुभुक्’ इति । समुचितम् उत्तरं श्रुत्वा अत्यन्तं प्रीतः सः शुकः वाग्भटेन अर्पितानि फलानि खादितवान्।
प्रश्ना:
I. एकपदेन उत्तरत-
(क) वाग्भटः किं कुर्वन्तं शुकम् अपश्यत् ?
उत्तराणि :
मधुरां वाणीम्
(ख) किं दृष्ट्वा वाग्भट: विस्मितः अभवत्?
उत्तराणि :
शुकम्
(ग) कः झटिति विहगाय मधुराणि फलानि समर्पितवान्?
उत्तराणि :
वाग्भटः
(घ) कः फलानि न गृहीतवान् ?
उत्तराणि :
शुक:
II. पूर्णवाक्येन उत्तरत-
(क) शुकः किम् अवदत् ?
उत्तराणि :
शुकः ‘कोऽरुक्’ इत्यवदत्।
(ख) कः भोजनं न वाञ्छति स्म ?
उत्तराणि :
शुक: भोजनं न वाञ्छति स्म।
(ग) उचितम् उत्तरं श्रुत्वा कः प्रीतः अभवत्?
उत्तराणि :
उचितम् उत्तरं श्रुत्वा शुकः प्रीतः अवदत्।
III. यथानिर्देशम् उत्तरत-
(i) ‘लौकिकः खगः’ इत्यत्र विशेषणपदं किम् ?
(क) अयम्
(ख) खगः
(ग) न
(घ) लौकिकः
उत्तराणि :
(घ) लौकिकः
(ii) ‘समर्पितवान्’ इति पदस्य कर्तृपदं किम?
(क) खगाय
(ख) फलानि
(ग) सः
(घ) मधुराणि
उत्तराणि :
(ग) सः
(iii) ‘आकर्ण्य’ इत्यर्थे किं पदं प्रयुक्तम् ?
(क) दृष्ट्वा
(ख) श्रुत्वा
(ग) आगत्य
(घ) विस्मितः
उत्तराणि :
(ख) श्रुत्वा
(ग) एतत् सर्वं दूरात् पश्यन्तः विस्मिताः शिष्याः आचार्यवाग्भटस्य समीपम् आगत्य अपृच्छन्–“गुरुवर ! शुकः ‘कोsरुक् को रुक् कोऽरुक्’ इति उक्तवान्, तस्य कोऽर्थः ? अपि च भवान् किम् उत्तरं दत्तवान् ?” तदा वाग्भटः छात्राणां जिज्ञासाम् उपशमयन् कथयति–“छात्राः, शृणुत ! एषः शुकः वदति यत् कः अरुक् अर्थात् कः स्वस्थः नीरोगः वा वर्तते’? तदा मया उक्तम्–
“यः हितभुक्, मितभुक्, ऋतुभुक् च, सः एव सर्वदा स्वस्थः भवति।” छात्रा : पुन: जिज्ञासया अपृच्छन्।
प्रश्ना:-
I. एकपदेन उत्तरत-
(क) कः छात्राणां जिज्ञासाम् उपशमयन् अवदत्?
उत्तराणि :
वाग्भटः
(ख) ‘अरुक्’ इतिपदस्य कः अर्थः ?
उत्तराणि :
स्वस्थः
(ग) शुकः किं वदति स्म ?
उत्तराणि :
कः अरुक्
II. पूर्णवाक्येन उत्तरत-
(क) के विस्मिताः अभवन् ?
उत्तराणि :
छात्रा: विस्मिताः अभवन्।
(ख) के वाग्भटस्य समीपम् आगत्य अपृच्छन्?
उत्तराणि :
छात्राः वाग्भटस्य समीपं आगत्य अपृच्छन्।
(ग) छात्राः किम् अपृच्छन्?
उत्तराणि :
छात्रा: अपृच्छन् यत् ‘अरुक्’ इत्यस्य कः अर्थः ।
III. यथानिर्देशम् उत्तरत-
(i) ‘कथयति’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) शुकः
(ख) छात्राः
(ग) वाग्भटः
(घ) शमनं
उत्तराणि :
(ग) वाग्भटः
(ii) ‘विस्मिताः’ इति पदस्य विशेष्यपदं किम् ?
(क) सर्वे
(ख) शिष्याः
(ग) दूरात्
(घ) वाग्भटः
उत्तराणि :
(ख) शिष्याः
(iii) ‘निरोगः’ इत्यस्य पर्यायशब्दं लिखत-
(क) वीरः
(ख) रोगी
(ग) अरुक्
(घ) भीरुः
उत्तराणि :
(ग) अरुक्
![]()
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(i) उत्तमस्य वैद्यस्य अन्वेषणाय धन्वन्तरिः शुकरूपं सर्वत्र अभ्रमत्?
उत्तराणि :
उत्तमस्य वैद्यस्य अन्वेषणाय कः शुकरूपं सर्वत्र अभ्रमत्?
(ii) सः शुकः वाग्भटेन अर्पितानि फलानि खादितवान्।
उत्तराणि :
सः शुकः केन अर्पितानि फलानि खादितवान्?
(iii) वाग्भटः सूत्ररूपाणि त्रीणि उत्तराणि प्रददात् ।
उत्तराणि :
वाग्भटः सूत्ररूपाणि कति उत्तराणि प्रददात् ?
(iv) विस्मिताः शिष्याः वाग्भटस्य समीपम् आगत्य अपृच्छन्।
उत्तराणि :
कीदृशाः शिष्याः वाग्भटस्य समीपम् आगत्य अपृच्छन् ?
(v) वाग्भटः छात्राणां जिज्ञासाम् उपशमयन् कथयति ।
उत्तराणि :
वाग्भटः केषाम् जिज्ञासाम् उपशमयन् कथयति?
(vi) चरकस्य नाम भवन्तः श्रुतवन्तः स्युः ।
उत्तराणि :
कस्य नाम भवन्तः श्रुतवन्तः स्युः ?
(vii) मात्रानुसारम् एव खादितव्यम् ।
उत्तराणि :
कीदृशम् एव खादितव्यम् ?
(viii) लघुद्रव्याणि अपि सेवनेन हानिकराणि जायन्ते ।
उत्तराणि :
लघुद्रव्याणि अपि सेवनेन कीदृशानि जायन्ते?
(ix) ऋतो: अनुसारं भोक्तव्यम् ।
उत्तराणि :
कस्य अनुसारं भोक्तव्यम् ?
(x) ऋषयः नित्यं प्रार्थनां कुर्वन्ति ।
उत्तराणि :
के नित्यं प्रार्थनां कुर्वन्ति ?
(xi) सर्वे भवन्तु सुखिनः ।
उत्तराणि :
सर्वे भवन्तु कीदृशा: ?
(xii) वाग्भटः शुकस्य रहस्यम् उक्तवान्।
उत्तराणि :
वाग्भटः कस्य रहस्यम् उक्तवान्?
घटनाक्रमम् अनुसृत्य वाक्यानि लिखत-
(क) शुकः वाग्भटस्य कुटीरसमीपम् अगच्छत्।
उत्तराणि :
धन्वन्तरिः शुकरूपं धृत्वा प्रतिग्रामम् अभ्रमत्।
(ख) वाग्भटः शुकाय फलानि समर्पितवान्।
उत्तराणि :
‘कोऽरुक्’ शब्दं प्रति कस्यापि अवधानं नासीत् ।
(ग) धन्वन्तरिः शुकरूपं धृत्वा प्रतिग्रामम् अभ्रमत्।
उत्तराणि :
शुकः वाग्भटस्य कुटीरसमीपम् अगच्छत्।
(घ) ‘कोऽरुक्’ शब्दं प्रति कस्यापि अवधानं नासीत्।
उत्तराणि :
वाग्भटः मनोहरं शुकम् अपश्यत्।
(ङ) वाग्भटः मनोहरं शुकम् अपश्यत् ।
उत्तराणि :
वाग्भटः विस्मितः अभवत् ।
(च) वाग्भट: विस्मितः अभवत् ।
उत्तराणि :
वाग्भटः शुकाय फलानि समर्पितवान्।
(छ) वाग्भट: सूत्ररूपेण त्रीणि उत्तराणि प्राददात् ।
उत्तराणि :
वाग्भटः सूत्ररूपेण त्रीणि उत्तराणि प्राददात्।
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
| मञ्जूषातः वाग्भटस्य, पुष्पतरुम्, कोऽरुक्, वाग्भटः, शुकरूपम्, वृक्षे, त्रीणि |
(क) धन्वन्तरिः __________ धृत्वा प्रतिग्रामम् अभ्रमत्।
उत्तराणि :
शुकरूपम्
(ख) शुकः __________ इति ध्वनिम् अकरोत् ।
उत्तराणि :
कोऽरुक्
(ग) शुक: __________ उपविश्य ध्वनिम् अकरोत् ।
उत्तराणि :
वृक्षे
(घ) अन्ते सः __________ कुटीरसमीपम् अगच्छत् ।
उत्तराणि :
वाग्भटस्यं
(ङ) वाग्भटः __________ उत्तराणि प्राददात्।
उत्तराणि :
त्रीणि
(च) शुकः __________ आरुह्य ध्वनिम् अकरोत् ।
उत्तराणि :
पुष्पतरुम्
(छ) __________ मनोहरं शुकम्।
उत्तराणि :
वाग्भटः।
![]()
क, ख स्तम्भयोः मेलनं कुरुत-
| (क) | (ख) |
| मनोहरम् | अभ्रमत् |
| विभिन्नानाम् | वाणीम् |
| भगवान् | फलानि |
| विस्मिताः | गिरा |
| प्रतिग्रामम् | शुकम् |
| मधुराम् | व्याधीनाम् |
| मधुरया | धन्वन्तरिः |
| मधुराणि | शिष्याः |
उत्तराणि :
| (क) | (ख) |
| मनोहरम् | शुकम् |
| विभिन्नानाम् | व्याधीनाम् |
| भगवान् | धन्वन्तरिः |
| विस्मिताः | शिष्याः |
| प्रतिग्रामम् | अभ्रमत् |
| मधुराम् | वाणीम् |
| मधुरया | गिरा |
| मधुराणि | फलानि |
पर्यायपदानाम् उचितं मेलनं कुरुत-
| (क) | (ख) |
| (i) अरुक् | क्षुधा |
| (ii) झटिति | वृक्षे |
| (iii) बुभुक्षा | धृत्वा |
| (iv) तरो : | पक्षी |
| (v) गृहीत्वा | नीरोगिणः |
| (vi) खगः | शुकः |
| (vii) मितं | मंगलानि |
| (viii) निरामयाः | स्वस्थः |
| (ix) कीर: | शीघ्रं |
| (x) भद्राणि | अल्पं |
उत्तराणि :
| (क) | (ख) |
| (i) अरुक् | स्वस्थः |
| (ii) झटिति | शीघ्रं |
| (iii) बुभुक्षा | क्षुधा |
| (iv) तरो : | वृक्षे |
| (v) गृहीत्वा | धृत्वा |
| (vi) खगः | पक्षी |
| (vii) मितं | अल्पं |
| (viii) निरामयाः | नीरोगिणः |
| (ix) कीर: | शुकः |
| (x) भद्राणि | मङ्गलानि |
रिक्तस्थानानि पूरयत
प्रदत्तविकल्पेभ्यः रिक्तस्थानानि पूरयत।
(दिए हुए विकल्पों में से रिक्त स्थानों की पूर्ति कीजिए ।)
- अन्ते सः ………. वाग्भटस्य कुटीरसमीपं गतवान् । (वैद्यस्य / वैद्येन)
- क्षणात् वाग्भटः …….. तं शुकम् अपश्यत्। (मनोहरेण/मनोहरं)
- तव उत्कृष्टेन आयुर्वेदज्ञानेन अहम् ………. सन्तुष्टः अस्मि । (बहव:/अतीव)
- ………. जिज्ञासाम् उपशमयन् कथयति । (छात्राणां/छात्राय)
- अत: मात्रानुसारम् ………… ‘खादितव्यम् । (एव/खलु)
उत्तर:
- वैद्यस्य
- मनोहरं
- अतीव
- छात्राणां
- एव
सत्यं / असत्यं
प्रदत्तविकल्पेभ्यं सत्यं / असत्यं उत्तरम् चित्वा लिखत ।
(दिए गए विकल्पों में से सत्य / असत्य उत्तर चुनकर लिखिए)
- तव उत्कृष्टेन आयुर्वेदज्ञानेन अहम् अतीव सन्तुष्टः अस्मि । (सत्यं/असत्यं)
- यस्य आहारस्य सेवनेन स्वास्थ्यस्य रक्षणं न भवेत्। (सत्यं/असत्यं)
- अत्युष्णं भोजनं हितकरं न भवति । (सत्यं/असत्यं)
- अतिमात्रं सेवनेन लाभदायकं जायन्ते। (सत्यं/असत्यं)
- आयुर्वेदस्य पूज्यः देवः भगवान् धन्वन्तरिः एवं स्वयं शुकरूपेण अत्र आगच्छत्। (सत्यं/असत्यं)
उत्तर:
- सत्यं
- असत्यं
- सत्यं
- असत्यं
- सत्यं
मेलनं कुर्वन्तु
सूची-I सूची -II, अनयोः मेलनं कुरुत ।
(सूची-I का सूची-II से मिलान कीजिए ।)

उत्तर:
(क) (iv) शुक:
(ख) (v) वाग्भट:
(ग) (i) धनवन्तरिः
(घ) (ii) ऋषयः
(ङ) (iii) चरकस्य
प्रश्ननिर्माणं
अधोलिखितानां रेखाङ्कितपदानां आधृत्य प्रश्ननिर्माणं कुरुत।
(निम्नलिखित रेखांकित पदों के आधार पर प्रश्न – निर्माण कीजिए ।)
- आयुर्वेदे बहवः आहार नियमाः सन्ति ।
- खगस्य ‘कोऽरुक्’ इति शब्दं प्रति कस्यापि अवधानं नासीत् ।
- नायं लौकिकः खगः ।
- आहारविषये एकः रोचकः प्रसङ्ग अस्ति ।
- सः अचिरादेव सूत्ररूपाणि त्रीणि उत्तराणि प्राददात् ।
उत्तर:
- कति
- कस्य
- कः
- किम्
- कति
The post Class 8 Sanskrit Chapter 9 MCQ कोऽरुक्? कोऽरुक्? कोऽरुक्? appeared first on Learn CBSE.
📚 NCsolve - Your Global Education Partner 🌍
Empowering Students with AI-Driven Learning Solutions
Welcome to NCsolve — your trusted educational platform designed to support students worldwide. Whether you're preparing for Class 10, Class 11, or Class 12, NCsolve offers a wide range of learning resources powered by AI Education.
Our platform is committed to providing detailed solutions, effective study techniques, and reliable content to help you achieve academic success. With our AI-driven tools, you can now access personalized study guides, practice tests, and interactive learning experiences from anywhere in the world.
🔎 Why Choose NCsolve?
At NCsolve, we believe in smart learning. Our platform offers:
- ✅ AI-powered solutions for faster and accurate learning.
- ✅ Step-by-step NCERT Solutions for all subjects.
- ✅ Access to Sample Papers and Previous Year Questions.
- ✅ Detailed explanations to strengthen your concepts.
- ✅ Regular updates on exams, syllabus changes, and study tips.
- ✅ Support for students worldwide with multi-language content.
🌐 Explore Our Websites:
🔹 ncsolve.blogspot.com
🔹 ncsolve-global.blogspot.com
🔹 edu-ai.blogspot.com
📲 Connect With Us:
👍 Facebook: NCsolve
📧 Email: ncsolve@yopmail.com
😇 WHAT'S YOUR DOUBT DEAR ☕️
🌎 YOU'RE BEST 🏆