Students find these Class 8 Sanskrit MCQ Chapter 6 डिजिभारतम् युगपरिवर्तनम् MCQ Questions with Answers helpful for self-assessment and preparation.
डिजिभारतम् युगपरिवर्तनम् Class 8 MCQ Questions Sanskrit Chapter 6
बहुविकल्पीय प्रश्ना:
अधोलिखित विकल्पेषु उचितं उत्तरं चित्वा लिखत ।
(निम्नलिखित विकल्पों में से उचित उत्तर चुनकर लिखिए।)
(i) प्रधानमन्त्रिकार्यालयः कुत्र स्थितः ?
(क) जयपुरस्थ:
(ख) मुम्बई नगरे
(ग) नवदेहलीस्थ:
(घ) कोलकाता नगरे
उत्तर:
(ग) नवदेहलीस्थ:
(ii) सर्वे उत्सुकतया सङ्ग्रहालये किम् पश्यन्ति?
(क) अस्त्राणि
(ख) वस्तूनि
(ग) वस्त्राणि
(घ) शस्त्राणि
उत्तर:
(ख) वस्तूनि
(iii) प्रधानमन्त्रिणः भाषणं कस्मिन् यन्त्रे श्रूयते दृश्यते च?
(क) प्रोजेक्टर:
(ख) फॉस्टेग
(ग) होलोग्राम
(घ) यूपीआई
उत्तर:
(ग) होलोग्राम
(iv) अनेन राजमार्गेषु स्वचालितविधिना कस्य सङ्ग्रहण शीघ्रं भवति ?
(क) वाहनशुल्कस्य
(ख) गृहशुल्कस्य
(ग) अध्ययनस्य शुल्कस्य
(घ) मार्गशुल्कस्य
उत्तर:
(घ) मार्गशुल्कस्य
(v) कस्य सर्वकारस्य विशिष्टा महत्त्वकाङ्क्षिणी योजना अस्ति ?
(क) भारतस्य
(ख) नेपालस्य
(ग) चीनदेशस्य
(घ) पाकिस्तानस्य
उत्तर:
(क) भारतस्य
अधोलिखितगद्यांशान् पठित्वा प्रश्नान् उत्तरत-
(क) अस्माकं देशः भारतं न केवलं सांस्कृतिकक्षेत्रे समृद्धम्, अपि तु नित्यम् आविष्कारैः कीर्तिं लभते । अद्य सम्पूर्णविश्वे ‘डिजिटल्-भारतम्’ इत्यस्य चर्चा श्रूयते । एकस्यैव पिञ्जस्य नोदनेन सर्वं नागरिक – सौविध्यं लभ्यते । अनेन भारतीयानां जीवनम् अधिकं सरलं जायमानम् अस्ति । डिजिटल्-पटले सम्पूर्णा वसुधा कुटुम्बवत् अस्ति । अधुना वयं भारतस्य डिजिटल – प्रगतेः विषये पठामः
प्रश्ना:-
I. एकपदेन उत्तरत-
(i) भारतं सांस्कृतिक क्षेत्रे कीदृशम् अस्ति ?
उत्तराणि :
समृद्धम्
(ii) ‘डिजिटल्-भारतम्’ इत्यस्य चर्चा कुत्र श्रूयते ?
उत्तराणि :
सम्पूर्णविश्वे
(iii) कस्य नोदनेन सर्वं नागरिक – सौविध्यं लभ्यते ?
उत्तराणि :
एकस्य पिञ्जस्य
![]()
II. पूर्णवाक्येन उत्तरत-
(i) सम्पूर्णा वसुधा कुटुम्बवत् कुत्र अस्ति?
उत्तराणि :
डिजिटल् – पटले सम्पूर्णा वसुधा कुटुम्बवत् अस्ति।
(ii) छात्राः कस्य विषये पठन्ति ?
उत्तराणि :
छात्राः भारतस्य डिजिटल्-प्रगतेः विषये पठन्ति ।
III. निर्देशानुसारम् उत्तरत-
(i) ‘कठिनम्’ इति पदस्य विपरीतार्थकं पदं किम् ?
(क) सरलम्
(ख) अधिकं
(ग) जीवनम्
(घ) केवलं
उत्तराणि :
(क) सरलम्
(ii) ‘सुविधा’ इत्यर्थे गद्यांशे किं पदं प्रयुक्तम् ?
(क) जायमानम्
(ख) नित्यम्
(ग) सौविध्यं
(घ) समृद्धम्
उत्तराणि :
(ग) सौविध्यं
(iii) ‘पठामः’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) विषये
(ख) वयं
(ग) अधुना
(घ) प्रगतेः
उत्तराणि :
(ख) वयं।
(ख) अध्यापकः-बालाः ! प्रधानमन्त्रिसङ्ग्रहालये युष्माकं सर्वेषां स्वागतम्। अत्र विविधाः डिजिटल् – प्रौद्योगिक्यः प्रयुक्ताः सन्ति। सानन्दं सावधानं च पश्यन्तु । अनन्तरं एतस्योपरि चर्चा करिष्यामः ।
(सर्वे बालाः प्रदर्शितानि विविधानि वस्तूनि उत्साहेन
पश्यन्ति, अनुभवन्ति, परस्परं चर्चाम् अति कुर्वन्ति ।) सर्वे छात्राः-अद्भुतं महोदय ! अत्र हॉलोग्राम्- द्वारा प्रधानमन्त्रिणः भाषणं श्रूयते दृश्यते च। प्रत्यक्षमेव प्रधानमन्त्री अत्र उपविष्टः इति भासते।
यशिका-सत्यम्, अहम् अपि हॉलोग्रामं दृष्टवती । अनेन दिवङ्गताः नेतारः अपि जीविताः इव दृश्यन्ते।
प्रश्ना:-
I. एकपदेन उत्तरत-
(i) छात्राणां स्वागतं कुत्र भवति ?
उत्तराणि :
प्रधानमन्त्रिसङ्ग्रहालये
(ii) विविधाः डिजिटल – प्रौद्योगिक्यः कुत्र प्रयुक्ताः सन्ति?
उत्तराणि :
प्रधानमन्त्रिसङ्ग्रहालये
(iii) का हॉलोग्रामं दृष्टवती ?
उत्तराणि :
यशिका
II. पूर्णवाक्येन उत्तरत-
(i) हॉलोग्रामेण के जीविताः इव दृश्यन्ते ?
उत्तराणि :
हॉलोग्रामेण दिवङ्गताः नेतारः अपि जीविताः इव दृश्यन्ते।
(ii) कः प्रत्यक्षम् एव उपविष्टः इति भासते ?
उत्तराणि :
प्रधानमन्त्री प्रत्यक्षम् एव उपविष्टः इति भासते।
III. निर्देशानुसारम् उत्तरत-
(i) ‘जीविताः’ इति पदस्य विलोम पदं किम् ?
(क) दिवङ्गताः
(ख) उपविष्टः
(ग) प्रयुक्ताः
(घ) विविधाः
उत्तराणि :
(क) दिवङ्गताः
(ii) ‘ पश्यन्ति’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) वस्तूनि
(ख) अध्यापकः
(ग) उत्साहेन
(घ) सर्वे बालाः
उत्तराणि :
(घ) सर्वे बालाः
(iii) ‘सजगं’ इत्यर्थे किं पदं प्रयुक्तम् ?
(क) सानन्दं
(ग) अनन्तरं
(ख) सावधानं
(घ) भाषणं
उत्तराणि :
(ख) सावधानं
![]()
(ग) अथर्वः – अत्र ‘वर्धिता-वास्तविकता’ (AR) ‘आभासीया-वास्तविकता’ (VR) च इत्याभ्यां सम्बद्धानि उपकरणानि अपि सन्ति, अनेन ऐतिहासिकवृत्तानि प्रत्यक्षम् इव अनुभूयन्ते। ‘भारतीय- – स्वतन्त्रता सङ्ग्रामं’ दृष्टवा अस्माकं पूर्वजानां संघर्ष कियान् विशालः आसीत् इति ज्ञायते।
भास्करः-अहम् अत्र कृत्रिमबुद्धि – आधारितं संवादयन्त्रं दृष्टवान्। एतत् यन्त्रम् अस्माकं सर्वविधप्रश्नानाम् उत्तराणि ददाति।
वेदिका – अहो! ‘डिजिटल – प्रक्षेपण – चलच्चित्रं दृष्ट्वा अहं विस्मिता अभवम् । अत्र सम्पूर्णस्य भारतस्य विकास-यात्रा प्रदर्शिता अस्ति।
श्रेया- एषः कश्चन अपूर्व: अनुभवः अस्ति । यश्च चिरकालपर्यन्तं स्मरणीयः भविष्यति ।
प्रश्ना:-
I. एकपदेन उत्तरत-
(i) केषाम् संघर्ष: कियान् विशालः आसीत्?
उत्तराणि :
पूर्वजानां
(ii) कृत्रिमबुद्धि-आधारितं संवादयन्त्रं कः दृष्टवान्?
उत्तराणि :
भास्करः
(iii) वेदिका किम् दृष्ट्वा विस्मिता अभवत्?
उत्तराणि :
डिजिटल् – प्रक्षेपण – चलच्चित्रम्
II. पूर्णवाक्येन उत्तरत-
(i) कृत्रिम बुद्धि-आधारितं संवादयन्त्रं किम् करोति ?
उत्तराणि :
कृत्रिमबुद्धि – आधारितं संवादयन्त्रम् अस्माकं सर्वविधप्रश्नानाम् उत्तराणि ददाति।
(ii) ऐतिहासिकवृत्तानि प्रत्यक्षम् इव केन अनुभूयन्ते ?
उत्तराणि :
‘वर्धिता-वास्तविकता’, ‘आभासीय- वास्तविकता’ इत्याभ्यां सम्बद्धानि उपकरणाणि सन्ति, अनेन ऐतिहासिकवृतानि प्रत्यक्षम् इव अनुभूयन्ते ।
III. निर्देशानुसारम् उत्तरत-
(i) ‘भारतस्य’ इति पदस्य विशेषणपदं किम्?
(क) यात्रा
(ख) सम्पूर्णस्य
(ग) विकास
(घ) प्रदर्शिता
उत्तराणि :
(ख) सम्पूर्णस्य
(ii) ‘अभवम्’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) अहम्
(ग) विस्मिता
(ख) चलच्चित्रं
(घ) डिजिटल्
उत्तराणि :
(क) अहम्
(iii) ‘विलोक्य’ इत्यर्थे किं पदं प्रयुक्तम् ?
(क) विस्मिता
(ख) स्मरणीयः
(ग) दृष्ट्वा
(घ) दृष्टवान्
उत्तराणि :
(ग) दृष्ट्वा
रेखांकितपदानि आधृत्य प्रश्ननिमार्णं कुरुत-
(i) सर्वे उत्सुकतया सङ्ग्रहालये प्रदर्शितानि वस्तूनि पश्यन्ति ।
उत्तराणि :
के उत्सुकतया सङ्ग्रहालये प्रदर्शितानि वस्तूनि पश्यन्ति ?
(ii) अस्माकं दैनिकं जीवनं परिवर्तितम् अभवत्?
उत्तराणि :
केषाम् दैनिकं जीवनं परिवर्तितम् अभवत्?
(iii) पितरौ ‘फास्टॅग्’ इत्यस्य उपयोगं कुरुतः।
उत्तराणि :
कौ ‘फास्टॅग’ इत्यस्य उपयोगं कुरुत: ?
(iv) राजमार्गेषु स्वचालितविधिना मार्गशुल्कस्य सङ्ग्रहणं शीघ्रं भवति ।
उत्तराणि :
राजमार्गेषु केन मार्गशुल्कस्य सङ्ग्रहणं शीघ्रं भवति?
(v) आपणेषु वस्तुक्रयणार्थं साक्षात् मुद्रायाः आवश्यकता नास्ति ।
उत्तराणि :
आपणेषु वस्तुक्रयणार्थं साक्षात् कस्याः आवश्यकता नास्ति ?
![]()
(vi) विश्वे भारतस्य अग्रगण्यं स्थानम् अस्ति ।
उत्तराणि :
विश्वे कस्य अग्रगण्यं स्थानम् अस्ति ?
(vii) डिजिटल योजना भारतस्य महत्त्वाकाङ्क्षिणी योजना अस्ति ।
उत्तराणि :
डिजिटल् योजना भारतस्य कीदृशी योजना अस्ति ?
(viii) सर्वकारः अन्तर्जालस्य उत्तरोत्तरं विस्ताराय कार्यं करोति।
उत्तराणि :
सर्वकारः कस्य उत्तरोत्तरं विस्ताराय कार्यं करोति ।
(ix) अस्माभिः ‘साङ्गणिक – सुरक्षा’ -विषये चिन्तनीयम्।
उत्तराणि :
काभि: ‘साङ्ङ्गणिक सुरक्षा’ विषये चिन्तनीयम्?
(x) जना: लोभात् भयात् वा साङगणिक-अपराधेन पीडिताः भवन्ति ।
उत्तराणि :
जना: लोभात् भयात् वा केन पीडिताः भवन्ति?
(xi) वयं डिजिटल – भारतं समृद्धं कर्तुं योगदानं करिष्यामः ।
उत्तराणि :
वयं डिजिटल भारतं कीदृशं कर्तुं योगदानं करिष्यामः ?
(xii) जनः जीवनस्य सौकर्यं सहसा लभते ।
उत्तराणि :
कः जीवनस्य सौकर्यं सहसा लभते ?
(xiii) डिजिटल् – शक्तिः सर्वजनान् सुशक्तान् कुर्यात्।
उत्तराणि :
डिजिटल्-शक्तिः कान् सुशक्तान् कुर्यात् ?
(xiv) राष्ट्रं डिजिटल – रूपेण सुशक्तं भवेत्।
उत्तराणि :
राष्ट्रं डिजिटल्-रूपेण कीदृशं भवेत् ?
(xv) ग्राम्य-क्षेत्रे अन्तर्जालस्य समस्या अस्ति।
उत्तराणि :
कुत्र अन्तर्जालस्य समस्या अस्ति ?
मञ्जूषायाः उचितपदानि चित्वा रिक्तस्थानानि पूरयत-
| मञ्जूषा – नवदेहलीस्थः, जालस्य, साङ्गणिक-अपराधाः
आधारपत्रं, फास्टॅग, योगदानम्, भारतस्य, जागृताः |
(i) डिजि – लॉकर इत्यस्य उपयोगेण ____________ विद्यालयीय प्रमाणपत्रं सुरक्षितम् अस्ति ।
उत्तराणि :
आधारपत्रं
(ii) प्रधानमन्त्रिसङ्ग्रहालय : ____________ अस्ति ।
उत्तराणि :
नवदेहलीस्थ:
(iii) अथर्वस्य पितरौ ____________ उपयोगं कुरुतः।
उत्तराणि :
फास्टॅग
(iv) मुद्रारहित – विनिमय सन्दर्भे विश्वे ____________ अग्रगण्यं स्थानम् अस्ति।
उत्तराणि :
भारतस्य
![]()
(v) ग्राम्य-क्षेत्रे अपि उच्चगतेः ____________ भविष्यति ।
उत्तराणि :
जालस्य
(vi) कृषिक्षेत्रे अपि डिजिटल – भारतस्य ____________ उपलब्धिः अस्ति।
उत्तराणि :
योगदानम्
(vii) अनेकविधाः ____________ भवन्ति ।
उत्तराणि :
साङ्गणिक-अपराधाः
(viii) जना: ____________ भवेयुः तदर्थम् उपायाः चिन्तनीयाः ।
उत्तराणि :
जागृताः।
सम्यक्रूपेण योजयत-
| ‘क’ | ‘ख’ |
| (i) योगदानम् | विस्तारपूर्वकम् |
| (ii) उपलब्धिः | दैनिक जीवनम् |
| (iii) दैनन्दिनजीवनम् | सिद्धिः |
| (iv) विस्तृतम् | सहयोगम् |
| (v) संवादः | यान्त्रिकी बुद्धि |
| (vi) प्रौद्योगिकी | जिज्ञासा |
| (vii) उत्सुकता | तकनीकी |
| (viii) कृत्रिमबुद्धिः | वार्तालाप: |
उत्तराणि :
| ‘क’ | ‘ख’ |
| (i) योगदानम् | सहयोगम् |
| (ii) उपलब्धिः | सिद्धिः |
| (iii) दैनन्दिनजीवनम् | दैनिक-जीवनम् |
| (iv) विस्तृतम् | विस्तार पूर्वकम् |
| (v) संवादः | वार्तालाप: |
| (vi) प्रौद्योगिकी | तकनीकी |
| (vii) उत्सुकता | जिज्ञासा |
| (viii) कृत्रिमबुद्धिः | यान्त्रिकी बुद्धिः |
मञ्जूषातः उचितविपरीतार्थकानि पदानि चित्वा लिखत-
| उत्थितः, दरिद्रं, क्षणिकं, कठिनं, सामान्यः, घटिता, प्राकृतिकं, परोक्षम् |
(i) सरलं ____________
(ii) समृद्धं ____________
(iii) नित्यं ____________
(iv) उपविष्टः ____________
(v) कृत्रिमं ____________
(vi) अपूर्व: ____________
(vii) वर्धिता ____________
(viii) प्रत्यक्षं ____________
उत्तराणि :
(i) कठिनं
(ii) दरिद्रं
(iii) क्षणिकं
(iv) उत्थितः
(v) प्राकृतिकं
(vii) घटिता
(vi) सामान्य
(viii) परोक्षम्
![]()
रिक्तस्थानं पूरयत
अधोलिखितानि रिक्तस्थानानि पूरयत ।
(निम्नलिखित रिक्त स्थानों की पूर्ति कीजिए ।)
- अधुना वयं भारतस्य डिजिटल ………. विषये । (वस्तूनि / प्रगतेः)
- …….. प्रधानमन्त्री अत्र उपविष्टः इति भासते। (प्रत्यक्षमेव / परोक्षमेव)
- सङ्ग्रहालयस्य ………. अनुभवः प्राप्तः। (समीचीनम् / अद्भुतम्)
- डिजिटल् योजनायाः ……. ‘दैनन्दिने जीवनेऽपि दृश्यते । (प्रभावः / विकासः)
- ……. आधारपत्रं विद्यालयीयं प्रमाणपत्रं च तत्र सुरक्षितम् अस्ति। (मम / अहं)
उत्तर:
- प्रगतेः
- प्रत्यक्षमेव
- अद्भुतम्
- प्रभाव:
- मम
सत्यं / असत्यं
प्रदत्तविकल्पेभ्यः सत्यं / असत्यं उत्तरं चित्वा लिखत ।
(दिए गए विकल्पों में से सत्य / असत्य उत्तर चुनकर लिखिए।)
- जनाः प्रायशः लोभात् भयात् वा साङ्गणिक-अपराधेन पीडिताः भवन्ति । (सत्यं / असत्यं)
- डिजिटल प्रक्षेपण चलच्चित्रेणं ऐतिहासिकवृत्तानि प्रत्यक्षम् इव अनुभूयन्ते । (सत्यं / असत्यं)
- डिजिटल्-योजनाः भारतस्य काचित् महत्त्वाकाङ्क्षिणी योजना अस्ति । (सत्यं / असत्यं)
- सर्वकारः अन्तर्जालस्य उत्तरोत्तरं विस्ताराय कार्यं करोति । (सत्यं / असत्यं)
- आशु प्रतिक्रिया कूट : (QR code ) इत्याधारितः कृषिकार्यश्च भवति । (सत्यं / असत्यं)
उत्तर:
- सत्यं
- असत्यं
- सत्यं
- सत्यं
- असत्यं
मेलनं कुर्वन्तु
सूची-I, सूची-II, अनयोः मेलनं कुरुत ?
(सूची-I का सूची – II से मिलान कीजिए।)

उत्तर:
(क) (ii) होलोग्राम
(ख) (v) ऐतिहासिक वृत्तिः
(ग) (i) भारतस्य विकास-यात्रा
(घ) (iii) निष्ठा:
(ङ) (iv) ई-नाम्
प्रश्ननिर्माणं
अधोलिखितानां रेखाङ्कितपदानां आधृत्य प्रश्ननिर्माणं कुरुत ।
(निम्नलिखित रेखांकित पदों के आधार पर प्रश्न – निर्माण कीजिए |)
- जनाः प्रायशः लोभात् वशात् वा सागणिक – अपराधेन पीडिताः भवन्ति ।
- एकस्यैव पिञ्जस्य नोदनेन सर्वं नागरिक – सौविध्यं लभ्यते ।
- युष्माकं सर्वेषां ‘प्रधानमन्त्रिसङ्ग्रहालये’ स्वागतम् ।
- ‘डिजिटल् योजनायाः प्रभाव: ‘दैनन्दिने जीवनेऽपि दृश्यते ।
- वित्तीयसमावेशनस्य क्षेत्रे यू.पी.आई, रुपे – कार्ड इत्यादिनी बहूनि साधनानि सन्ति ।
उत्तर:
- केन
- कस्य
- कुत्र
- कुत्र
- कस्य
The post Class 8 Sanskrit Chapter 6 MCQ डिजिभारतम् युगपरिवर्तनम् appeared first on Learn CBSE.
📚 NCsolve - Your Global Education Partner 🌍
Empowering Students with AI-Driven Learning Solutions
Welcome to NCsolve — your trusted educational platform designed to support students worldwide. Whether you're preparing for Class 10, Class 11, or Class 12, NCsolve offers a wide range of learning resources powered by AI Education.
Our platform is committed to providing detailed solutions, effective study techniques, and reliable content to help you achieve academic success. With our AI-driven tools, you can now access personalized study guides, practice tests, and interactive learning experiences from anywhere in the world.
🔎 Why Choose NCsolve?
At NCsolve, we believe in smart learning. Our platform offers:
- ✅ AI-powered solutions for faster and accurate learning.
- ✅ Step-by-step NCERT Solutions for all subjects.
- ✅ Access to Sample Papers and Previous Year Questions.
- ✅ Detailed explanations to strengthen your concepts.
- ✅ Regular updates on exams, syllabus changes, and study tips.
- ✅ Support for students worldwide with multi-language content.
🌐 Explore Our Websites:
🔹 ncsolve.blogspot.com
🔹 ncsolve-global.blogspot.com
🔹 edu-ai.blogspot.com
📲 Connect With Us:
👍 Facebook: NCsolve
📧 Email: ncsolve@yopmail.com
😇 WHAT'S YOUR DOUBT DEAR ☕️
🌎 YOU'RE BEST 🏆