Students rely on Class 9 Sanskrit Solutions and Class 9th Sanskrit Sharada Chapter 1 Question Answer सत्यं शिवं सुन्दरं संस्कृतम् NCERT Solutions to clarify their doubts after class.
Sanskrit Class 9 Chapter 1 Question Answer सत्यं शिवं सुन्दरं संस्कृतम्
Class 9 Sanskrit Ch 1 Question Answer NCERT Solutions सत्यं शिवं सुन्दरं संस्कृतम्
सत्यं शिवं सुन्दरं संस्कृतम् प्रश्न उत्तर कक्षा 9
अभ्यासाद् जायते सिद्धिः
१. छात्राः मिलित्वा पृथक् पृथक् पञ्चानां छात्राणां लघुसमूहान् निर्मा यति-गति-लयपूर्वकं गीतगानस्य अभ्यासं करिष्यन्ति ।
२. एकपदेन उत्तरं लिखत-
यथा – ज्ञानपुञ्जप्रभादर्शकं किम् ?

(क) संस्कृतं कस्याः साधकम् ?
(ख) सर्वदा संस्कृतं कस्य सन्दोहदम्?
(ग) संस्कृतं कस्य प्रेरणादायकम् ?
(घ) संस्कृतं कासां परिष्कारकम् ?
(ङ) कस्य विस्तारकं संस्कृतम् ?
उत्तर:
(क) भारतीयैकतायाः
(ख) आनन्दस्य
(ग) सत्पथस्य
(घ) सर्ववाणीनाम्
(ङ) विश्वबन्धुत्वस्य।
३. अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
(क) सर्वतः कस्याः संस्थापकं संस्कृतम्?
(ख) कीदृशं व्रतं संस्कृतम् ?
(ग) कयोः सम्मेलनं संस्कृतम् ?
(घ) संस्कृतं कस्य चमत्कारकम् ?
(ङ) केषां यशः स्मारकं संस्कृतम् ?
उत्तर:
(क) सर्वतः संस्कृतं शान्तेः संस्थापकम् अस्ति।
(ख) संस्कृतं त्यागसन्तोषसेवाव्रतम् अस्ति।
(ग) संस्कृतं ज्ञानविज्ञानयोः सम्मेलनम् अस्ति।
(घ) संस्कृतं विश्वचेतसः चमत्कारकम्अस्ति।
(ङ) संस्कृतं पूर्वजानां यशसः स्मारकम् अस्ति।
![]()
४. रिक्तस्थानानि पूरयन्तु-

यथा- सर्वभूतैकता – कारकं संस्कृतम्।
(क) ………… सम्पादकं संस्कृतम्।
(ख) ………. दर्शकं संस्कृतम्।
(ग) …….. संस्कारकं संस्कृतम्।
(घ) कर्मदं ……… भक्तिदं संस्कृतम्।
(ङ) सत्यनिष्ठं ……… संस्कृतम्।
(च) शब्दलालित्य ……….. संस्कृतम्।
उत्तर:
(क) भारतीयत्व
(ख) ज्ञानपुञ्जप्रभा
(ग) सर्वमस्तिष्क
(ङ) शिवं सुन्दरं
(घ) ज्ञानदं
(च) लीलावनं
५. मञ्जूषायाः पदानि उपयुज्य षड्वाक्यानि रचयत-

वाणीपरिष्कारिका, एकता, सर्वतः सेवा, सुन्दरम् पूर्वजानाम्, सत्पथे प्रेरयितुम्, विश्वकल्याणाय, त्यागस्य, सन्तोषस्य, विश्वबन्धुत्वविस्तारकम्

यथा- वाणीपरिष्कारिका संस्कृत-भाषा भवति ।
(क) ……………………………………..
(ख) ……………………………………..
(ग) ……………………………………..
(घ) ……………………………………..
(ङ) ……………………………………..
(च) …………………………………….
उत्तर:
(क) सत्पथे प्रेरयितुं संस्कृतभाषा समर्थाअस्ति।
(ख) विश्वबन्धुत्वस्य विस्तारिका संस्कृतभाषाअस्ति।
(ग) संस्कृतभाषा त्यागस्य सन्तोषस्य च भाषाअस्ति।
(घ) विश्वकल्याणस्य निष्ठायुता संस्कृतभाषा अस्ति।
(ङ) संस्कृतभाषा सर्वतः शान्तिसंस्थापिकाअस्ति।
(च) संस्कृतभाषा सत्यानिष्ठा अस्ति।
६. अधोलिखितानां समस्तपदानाम् उदाहरणानुसारं विग्रहं कुरुत-

यथा— भारतीयैकतासाधकम् भारतीयैकताया:साधकम्।
(क) ज्ञानपुञ्जप्रभादर्शकम् …………………….
(ख) सर्ववाणीपरिष्कारकम् …………………………….
(ग) विश्वबन्धुत्वविस्तारकम् ……………………
(घ) सर्वभूतैकताकारकम् …………………..
(ङ) शान्तिसंस्थापकम् …………………..
(च) ज्ञानविज्ञानसम्मेलनम् ……………..
उत्तर:
(क) ज्ञानस्य पुञ्जः, तस्य प्रभादर्शकम् ।
(ख) सर्ववाणीनां परिष्कारकम्।
(ग) विश्वबन्धुत्वस्य विस्तारकम् ।
(घ) सर्वभूतैकतायायाः कारकम्।
(ङ) शान्तेः संस्थापकम्।
(च) ज्ञानाविज्ञानयोः सम्मेलनम्।
७. प्रदत्तमञ्जूषात: पर्यायपदानि चित्वा रिक्तस्थाने लिखत-


उल्लासः, किरणः, जगत्, अनुपमा, तेजोराशयः, मानम्
(क) विद्वांसः ………….. भवति ।
(ख) सूर्यस्य ……….. सर्वेषां प्राणिनां कृते हितकर: भवन्ति ।
(ग) ईश्वरं स्मृत्वा ……….. उपजायते।
(घ) विद्याया: ……… अजरं भवति ।
(ङ) प्रकृतेः शोभा ……… विद्यते।
(च) यत्र ……… एकनीडं भवति ।
उत्तर:
(क) तेजोराशयः
(ख) किरण:
(ग) उल्लासः
(घ) मानम्
(ङ) अनुपमा
(च) जगत्
८. अधोलिखितानां मेलनं कुरुत-

उत्तर:
(क) भारतीयैकतायाः – २. साधकम्
(ख) सत्पथे – ४. प्रेरणादायकम्
(ग) त्यागसन्तोषसेवारूपम् – ५. व्रतम्
(घ) ज्ञानपुञ्जप्रभायाः – ३. दर्शकम्
(ङ) विश्वबन्धुत्वस्य – १. विस्तारकम्
स्वाध्यायान्मा प्रमदः
पञ्चशीलं किम्?
बौद्धधर्मे सदाचरणस्य परिपालनाय पञ्च शीलानि सन्ति । येषामाचरणं मनुष्याणाम् अत्यन्तं लाभाय अस्ति । तेषां विवरणमस्ति –
१. अस्तेयम्
२. अहिंसा
३. ब्रह्मचर्यम्
४. सत्यम्
५. मादकद्रव्याणां परिहारः ।
एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥
संस्कृतं संस्कृतेर्मूलं ज्ञानविज्ञानवारिधिः ।
वेदतत्त्वार्थसंजुष्टं लोकाऽऽलोककरं शिवम् ॥
सत्याहिंसागुणैः श्रेष्ठा विश्वबन्धुत्वशिक्षिका।
विश्वशान्तिसुखाधात्री भारतीया हि संस्कृतिः॥
![]()
यस्तु क्रियावान् मनुजः स विद्वान्
१. “संस्कृताधारिता भारतीयैकता” इति एतं विषयम् आधृत्य एका भाषणप्रतियोगिता आयोजनीया । शिक्षकः भाषणप्रतियोगितायां निम्नाङ्कितानां बिन्दूनां समावेशं करिष्यति ।

२. विश्वबन्धुत्वभावनायाः विकासाय के मार्गाः अवलम्बनीयाः इति विषयमधिकृत्य सहपाठिभिः सह आलोचनां कुरु ।
Class 9th Sanskrit Chapter 1 सत्यं शिवं सुन्दरं संस्कृतम् Question Answer
संस्कृत कक्षा 9 पाठ 1 सत्यं शिवं सुन्दरं संस्कृतम् के प्रश्न उत्तर
पठितावबोधनम्
१. अधोलिखितयोः पद्यांशयोः पठित्वा उत्तराणि लिखत-
1. त्यागसन्तोषसेवाव्रतं संस्कृतम्
विश्वकल्याणनिष्ठायुतं संस्कृतम्
ज्ञानविज्ञानसम्मेलनं संस्कृतम्
भुक्तिमुक्तिद्वयोद्वेलनं संस्कृतम् ॥४॥
प्रश्ना:-
I. एकपदेन उत्तरत-
- विश्वकल्याणनिष्ठायुतं किम् ?
- भुक्तिमुक्तिद्वयोद्वेलनं किम् ?
- कस्य निष्ठायुतं संस्कृतम्अस्ति?
उत्तर:
- संस्कृतम्
- संस्कृतम्
- विश्वकल्याणस्य
II. पूर्णवाक्येन उत्तरत-
- कयोः सम्मेलनं संस्कृतम् ?
- संस्कृतं कीदृशं व्रतम्अस्ति?
उत्तर:
- ज्ञानविज्ञानसम्मेलनं संस्कृतम्।
- त्यागसन्तोषसेवाव्रतं संस्कृतम् अस्ति।
III. यथानिर्देशम् उत्तरत-
(i) ‘सन्तोष:’ इत्यस्य पर्यायशब्दं लिखत-
(क) दया
(ख) तोष:
(ग) बुभुक्षा
(घ) लोभः
उत्तर:
(ख) तोष:
(ii) ‘ज्ञानविज्ञानसम्मेलनं’ इति पदस्य विशेष्यपदं किम् ?
(क) संस्कृत
(ख) संस्कृतम्
(ग) कृतं
(घ) संस्कृत:
उत्तर:
(ख) संस्कृतम्
(iii) ‘मुक्ति:’ इत्यस्य पदस्य विलोमपदं किम् ?
(क) द्वयोः
(ख) भुक्ति
(ग) निग्रहः
(घ) मुक्ती:
उत्तर:
(ग) निग्रहः
2. विश्वबन्धुत्वविस्तारकं संस्कृतम्
सर्वभूतैकताकारकं संस्कृतम्
सर्वतः शान्तिसंस्थापकं संस्कृतम्
पञ्चशीलप्रतिष्ठापकं संस्कृतम् ॥
प्रश्ना:-
I. एकपदेन उत्तरत-
- कस्य प्रतिष्ठापकं संस्कृतम् ?
- सर्वतः शान्तिसंस्थापकं किम् ?
- संस्कृतं कस्य विस्तारकम् ?
उत्तर:
- पञ्चशीलस्य
- संस्कृतं
- विश्वबन्धुत्वस्य
II. पूर्णवाक्येन उत्तरत-
- संस्कृतं कस्याः संस्थापकम्अस्ति?
- केषाम् एकताकारकं संस्कृतम् ?
उत्तर:
- संस्कृतं शान्तेः संस्थापकम्अस्ति।
- सर्वभूतानाम् एकताकारकं संस्कृतम्।
III. यथानिर्देशम् उत्तरत-
(i) ‘विस्तारकं’ इत्यस्य पदस्य कः अर्थः ?
(क) प्रसारकं
(ख) कारक
(ग) प्रसारः
(घ) प्रसारयति
उत्तर:
(क) प्रसारकं
(ii) ‘एकता’ इति पदस्य विलोमपदं किम् ?
(क) प्रमुखता
(ख) अनेकता
(ग) विशेषता
(घ) सर्वदा
उत्तर:
(ख) अनेकता
(iii) ‘विश्वबन्धुत्वविस्तारकं संस्कृतम्’ अत्र विशेष्यपदं किम् ?
(क) बन्धुत्व
(ख) विश्व
(ग) विस्तारकं
(घ) संस्कृतम्
उत्तर:
(घ) संस्कृतम्
२. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माण कुरुत।
(क) संस्कृतभाषा भारतीयानाम् ऐक्यं साधयति।
(ख) संस्कृतं जनानां मानसं शोधयति ।
(ग) विश्वबन्धुत्वं वर्धयति ।
(घ) इहलोके परलोके च संस्कृतेन उत्कर्षः लभ्यते।
(ङ) संस्कृतस्य श्रवणेन जना: चमत्कारं लभन्ते ।
(च) संस्कृतं ज्ञानसमूहस्य प्रभा दर्शयति ।
उत्तर:
(क) संस्कृतभाषा केषाम् ऐक्यं साधयति ?
(ख) संस्कृतं केषाम् मानसं शोधयति ?
(ग) किं वर्धयति ?
(घ) इहलोके परलोके च केन उत्कर्ष: लभ्यते ?
(ङ) कस्य श्रवणेन जना: चमत्कारं लभन्ते ?
(च) संस्कृतं कस्य प्रभा दर्शयति ?
![]()
३. मेलनं कुरुत-

उत्तर:
‘क’ – ‘ख’
(क) भारतीय – २. एकतासाधकम्
(ख) ज्ञानपुञ्जप्रभा – १. दर्शकम्
(ग) सत्पथ – ५. प्रेरणादायकम्
(घ) सर्वदानन्द – ३. सन्दोहदम्
(ङ) सर्वमस्तिष्क – ४. संस्कारकम्
४. अधोलिखितपद्यांशस्य अन्वयं मञ्जूषातः उचितं पदं चित्वा पूरयत-
1. धर्मकामार्थमोक्षप्रदं संस्कृतम्
ऐहिकामुष्मिकोत्कर्षदं संस्कृतम्
कर्मदं ज्ञानदं भक्तिदं संस्कृतम्
सत्यनिष्ठं शिवं सुन्दरं संस्कृतम् ॥
अन्वय- संस्कृतं (i) ………., संस्कृतं ऐहिकामुष्मिकोत्कर्षदं (ii) ……… ‘कर्मदं ज्ञानदं (iii) ……… संस्कृतं सत्यनिष्ठं (iv) ……. सुन्दरम् (अस्ति)।
मञ्जूषा- शिवं, संस्कृतं, धर्मकामार्थमोक्षप्रदं भक्तिदं
उत्तर:
(i) धर्मकामार्थमोक्षप्रदं
(ii) संस्कृतं
(iii) भक्तिदं
(iv) शिवं
५. अधोलिखितपद्यांशयोः भावार्थं मञ्जूषातः पदानि चित्वा पूरयत-
(क) भारतीयैक्तासाधकं संस्कृतम्
भारतीयत्वसम्पादकं संस्कृतम्
ज्ञानपुञ्जप्रभादर्शकं संस्कृतम्
सर्वदानन्दसन्दोहदं संस्कृतम्।।
भावार्थ:- संस्कृतभाषा भारतीयानाम् (i) ………. साधयति, भारतीयत्वं सम्पादयति, ज्ञानसमूहस्य (ii) ……… दर्शयति, सर्वदा (iii) ……. परम्परां एव (iv) ………।
मञ्जूषा- जनयति, प्रभां ऐक्यं आनन्दस्य
उत्तर:
(i) ऐक्यं
(ii) प्रभां
(iii) आनन्दस्य
(iv) जनयति ।
(ख) विश्वबन्धुत्वविस्तारकं संस्कृतम्
सर्वभूतैकताकारकं संस्कृतम्
सर्वतः शान्तिसंस्थापकं संस्कृतम्
पञ्चशीलप्रतिष्ठापकं संस्कृतम् ।।
भावार्थ:- संस्कृतं विश्वबन्धुत्वं (i) …….., सर्वेषां प्राणिनाम् अपि (ii) ……. बोधयति, सर्वत्र (iii) …… प्रतिष्ठापयति, प्रसिद्धानां (iv) ……. शीलानां रीतिं गमयति ।
मञ्जूषा – पञ्चानां, शान्तिं, ऐक्यं, वर्धयति
उत्तर:
(i) वर्धयति
(ii) ऐक्यं
(iii) शान्तिं
(iv) पञ्चानां
६. पर्यावाचि पदानां मेलनं कुरुत-

उत्तर:
‘क’ – ‘ख’
(क) सुन्दरं – चारु
(ख) प्रभा – दीप्तिः
(ग) पुञ्जः – समूह:
(घ) ऐहिकम् – संसारस्य
(ङ) आमुष्मिकं – परलोकस्य
(च) सन्दोह: – समूह:
(छ) माधुर्यं – मधुरतां
(ज) गृहं – गेहं
७. विपरीतार्थक पदानाम् उचितं मेलनं कुरुत-

उत्तर:
‘क’ – ‘ख’
(क) प्रभा – तमः
(ख) पुञ्ज: – विखण्डन
(ग) मुक्ति: – बन्धनं
(घ) चारु: – विकृतं
(ङ) माधुर्यं – कटुता
(च) यश: – अपयशः
The post Class 9 Sanskrit Chapter 1 Question Answer सत्यं शिवं सुन्दरं संस्कृतम् appeared first on Learn CBSE.
📚 NCsolve - Your Global Education Partner 🌍
Empowering Students with AI-Driven Learning Solutions
Welcome to NCsolve — your trusted educational platform designed to support students worldwide. Whether you're preparing for Class 10, Class 11, or Class 12, NCsolve offers a wide range of learning resources powered by AI Education.
Our platform is committed to providing detailed solutions, effective study techniques, and reliable content to help you achieve academic success. With our AI-driven tools, you can now access personalized study guides, practice tests, and interactive learning experiences from anywhere in the world.
🔎 Why Choose NCsolve?
At NCsolve, we believe in smart learning. Our platform offers:
- ✅ AI-powered solutions for faster and accurate learning.
- ✅ Step-by-step NCERT Solutions for all subjects.
- ✅ Access to Sample Papers and Previous Year Questions.
- ✅ Detailed explanations to strengthen your concepts.
- ✅ Regular updates on exams, syllabus changes, and study tips.
- ✅ Support for students worldwide with multi-language content.
🌐 Explore Our Websites:
🔹 ncsolve.blogspot.com
🔹 ncsolve-global.blogspot.com
🔹 edu-ai.blogspot.com
📲 Connect With Us:
👍 Facebook: NCsolve
📧 Email: ncsolve@yopmail.com
😇 WHAT'S YOUR DOUBT DEAR ☕️
🌎 YOU'RE BEST 🏆